पृष्ठम्:अलङ्कारमणिहारः.pdf/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
151
उल्लेखसरः ‍‌‍‌‍‌(९)

रुचिः अभिरतिः । अर्थित्वं लिप्सा । भयं प्रसिद्धमेव । अनेकधोल्लेखे रुच्यादीनां यथार्हं प्रयोजकत्वम् ॥

 कनकाचलेश्वरकरे कनन्तमब्जं सुधांशुरिति चक्रम् । दिनमणिरिति च विदित्वाऽहर्षि चकोरैश्च चक्रवाकैश्च ॥ २५३ ॥

 अत्र चकोरचक्रवाकैः पाञ्चजन्यसुदर्शनयोस्सुधांशुत्वेन दिनमणित्वेन च ग्रहणे भ्रान्तिरूपेऽतिप्रसङ्गवारणायैकस्य वस्तुन इति ॥

 वारिनिधेर्वात्सल्यं वारिजविपिनस्य विभवपौष्कल्यम् । शौरेर्महिमौज्ज्वल्यं नारीरत्नं स्मरेयमनुकल्यम् ॥ २५४ ॥

 इत्यादिमालारूपकेऽतिप्रसङ्गवारणायानेकैर्ग्रहीतृभिरित्यविव क्षितबहुत्वं ग्रहणविशेषणम् ॥

 हरिमहिशिलोच्चयाग्रे विलोक्य मत्वा बलाहकोऽयमिति । माद्यन्ति दन्तिनिवहा नृत्यन्ति कलापिनामपि कुलानि ॥ २५५ ॥

 अत्र हरिरूपस्यैकस्य वस्तुनोऽनेकैर्दन्तिकलापिकुलैर्ग्रहीतृभिरेकेनैव बलाहकत्वरूपेण प्रकारणेन ग्रहणमिति तत्रातिप्रसंगवारणायानेकप्रकारकमिति । ग्रहणमिति ग्रहणसमुदायो विवक्षितः । एकत्वं जातौ, अनेकग्रहीतृकस्यैकस्य ग्रहणस्याप्रसिद्धेः ।