तर्कव्याकृतिमीमांसाज्योतिश्शास्त्राद्यपेक्षया । |
इत्येतदप्युक्तार्थेऽनुकूलम् । एत्य ज्ञात्वेत्यर्थः । श्रिया उपदर्शितोपकरणज्ञानानुरूपकाव्यग्रथनौपयिकवाग्विभवेनेत्यर्थः । ‘श्रीर्लक्ष्म्यां सरळद्रुमे । वेषोपकरणे वेषरचनायां मतौ गिरि। शोभात्रिवर्गसंपत्त्योः' इति हेमचन्द्रः । अत एव अनन्ताः अपरिच्छिन्नाः सुश्लोकाः अदोषसगुणसालंकारशब्दार्थरूपकाव्यलक्षणपरिपूर्णानि पद्यानि यस्य वश्यवाक्त्वेन भूयिष्ठसत्काव्यनिर्माणप्रवीणमिति भावः । अत्र वेदान्तपुराणप्रतिपादितेऽर्थे पूर्ववदारोपः ॥
यथावा-
दारिद्र्यदवं शमयत्याख्यैकाऽब्जाक्षभागधेयस्य । सारोपासाध्यवसितिरिह गौणी साधुलक्षणा शुद्धा ॥
इह लोके सारा उपासायाः उपासनायाः अध्यवसितिः निश्चयः यस्यास्सा तथोक्ता यद्विषयक उपासनाध्यवसायः अवश्यंभाविफलतया श्रेयान् सा सारोपासाध्यवसितिरित्यर्थः । आख्याया उपासनं च ‘ओं नमो नारायणायेति मन्त्रोपासकः' इत्यादाविव जप एवेति ध्येयम् । गौणी ‘यानि नामानि गौणानि’ इत्युक्तरीत्या गुणत आगता-
शृणाति निखिलान्दोषान् श्रीणाणि च गुणैर्जगत् । |
इत्यादिनिरुक्तेरिति भावः । अत एव साधु लक्षणं प्रवृत्तिनिमित्तं यस्यास्सा तथोक्ता । यद्वा-लक्ष्यन्त इति लक्षणाः ‘कृ-