पृष्ठम्:अलङ्कारमणिहारः.pdf/४८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
477
समासोक्तिसरः (२५)


दप्यनुसन्धेयम् । अत एव सुश्लोकं शोभनकीर्तिं ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ' इति लक्ष्मीपतित्वेन श्रुतस्यैव हि तव ‘तस्य नाम महद्यशः' इति यशस्विता श्रूयते 'स आपः प्रदुघे उभे इमे' इति ‘जगत्कारणत्वेन प्रस्तुतस्य निखलजगज्जननादिलीलत्वसर्वरक्षकत्वकीर्तिस्तस्यैव नान्यस्येत्यर्थः । नामेति प्रसिद्धौ’ इत्युपनिषद्भाष्यम् । त्वां श्रये । नारायणीये प्रथमानुवाके ‘अद्भ्यस्संभूतो हिरण्यगर्भ इत्यष्टौ’ इति पाठात् तस्मिंश्चानुवाके ह्रीश्च ते लक्ष्मीश्च पत्न्यौ' इति श्रवणात् लक्ष्मीपतेरेव ‘तस्य नाम' इति तदनुवाकोक्तं यशस्वित्वं नान्यस्येत्यवधेयम् ।

 पक्षे-शक्तिः अभिधापरपर्यायः साक्षात्संकेतविषयविषयकधीहेतुर्मुख्यश्शब्दनिष्ठो व्यापारः ‘व्यापारश्शक्यधीहेतुर्मुख्यश्शब्दगतोऽभिधा' इति लक्षणात् । सा सुष्ठुविदिता येन तम् । कृता विचारिता लक्षणा येन तं तथोक्तम् । लक्षणा नाम-

तात्पर्यविषयीभूतार्थान्वयानुपपत्तितः ।
शक्तिभिन्नार्थधीहेतुर्व्यापारो लक्षणोच्यते ॥

इत्युक्तलक्षणश्शब्दव्यापारः । कृञो व्यापारसामान्यार्थकत्वेन कृतेत्यस्य विचारणार्थकत्वमवसेयम् । अत एव कृतहस्तः कृतधीरित्यादौ कृञश्शिाद्यर्थकत्वं दृश्यते । अञ्जनं ‘वाच्यलक्ष्यविभिन्नार्थधीकृद्व्यापृतिरञ्जनम्' इत्युक्तलक्षणो व्यञ्जनापरपर्यायश्शब्दव्यापारविशेषः । तस्मिन् अचलः स्थिरः उल्लासः हर्षः यस्य तम् । एतैर्विशेषणैः अभिधालक्षणाव्यञ्जनारूपशब्दव्यापारत्रितयकूलंकषप्रतिभोन्मेष-तया वाचकलक्षकव्यञ्जकपदप्रयोगनिरङ्कुशकौशलं द्योत्यते । साहित्यं सहितानि सर्वशास्त्राण्येव साहित्यम् । स्वार्थे ष्यञ् । यथोक्तं भावप्रकाशे-