पृष्ठम्:अलङ्कारमणिहारः.pdf/४८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
479
समासोक्तिसरः (२५)

त्यल्युटो बहुळम्' इति बहुळग्रहणात्कर्मणि ल्युट् । साधवो लक्षणाः यस्यास्सा यदाख्याधारणेन साधवस्सज्जना इति लक्ष्यन्ते ज्ञाप्यन्ते सा साधुलक्षणेत्यर्थः । ‘साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्' इति मेदिनी । शुद्धा पावनी ‘शुद्धं स्यात्त्रिषु केवले । निर्दोषे च पवित्रे च' इति मेदिनी । अब्जाक्षस्य श्रीनिवासस्य भागधेयं तस्य भागधेयत्वेनाध्यवसितायाश्श्रिय इत्यर्थः । एका आख्या श्रीरित्यादिकमेकमेवाभिधेयं दारिद्र्यमेव दवं वनहुताशनं शमयति । ‘सर्वदारिद्र्यनाशिनी’ इति तन्नामसु पाठादिति भावः ।

 पक्षे-इह दारिद्र्यदवमिति पदे सारोपा गौणी लक्षणा अब्जाक्षभागधेयस्येत्यत्र तु साध्यवसितिः शुद्धा लक्षणेति पाठक्रमेण यथासंख्यमन्वयः । साधु साध्वीत्यर्थः । सामान्ये नपुंसकं 'शक्यमरविन्दसुरभिः' इत्यादिवत् । यद्वा-साधुत्वेन लक्षणैव विशेष्यते । अथवा भवतीत्यध्याहृतक्रियाविशेषणमिति बोध्यम् । अयं भावः दारिद्र्यदवमित्यत्र विषयविषयिवाचकयोर्दारिद्र्यदवपदयोस्सामानाधिकरण्यनिर्देशात्सारोपा लक्षणा । सा च दवशब्दस्य तापकारित्वादिगुणसादृश्येन वृत्तेर्गौणी ॥

सारोपा द्विविधा सेयं गौणी शुद्धेति भेदतः ।
सादृश्यात्मकसंबन्धरूपा गौणीत्युदीर्यते ॥
शुद्धा तदन्यसंबन्धरूपा सा तु निगद्यते ।

इति लक्षणात् । अब्जाक्षभागधेयस्येत्यत्र तु आरोपविषयं श्रियं निगार्य तस्य विषयिणो भागधेयस्यैव निबन्धनात्साध्यवसानालक्षणा । भागधेयश्रियोः कार्यकारणभावसंबन्धं पुरस्कृत्य विषयिपदमात्रोपादानेन शुद्धेति विवेकः । तथाच तल्लक्षणम्-