अदजकोणजबअकोणौ च समानौ । एवं द्वौ त्रिभुजौ समानौ । तदा बदकर्णेन चतुर्मुजस्य भागद्वयं समानं कृतमित्युपपन्नम् ॥ प्रकारान्तरम् । यदि अबभुजः जदभुजेन समानो न स्यात् तर्हि जहभुजेन समानः स्यात् । तत्र अहरेखा कार्या । एवं अहरैखा बजरेखायाः समानान्तरा भविष्यति । पुनर्बजरेखा ६ अदरेखायाः समानान्तरास्ति । तदा अहरेखा अदरेखा समानान्तरा जाता । इदं बाधितम् । अथानेन प्रकारेण अदरेखा बजरेखायाः समाना भवति । यदि बअदकोणः बजदकोणेन समानो न भवति तदा बअहोणो बजदकोणेन समानः स्यात् । तत्र अजरेखा कार्या । तदा बअज- कोणइअकोणौ समानौ । तदा जअइकोणः अजबफोणेन स मानो जातः । जअदफोणः अजबकोणेन समानोऽस्ति । इदमप्य नुपपन्नम् । एवं बकोणो दकोणेन समानोऽस्ति । पुनः अदजत्रिभुजं अबबत्रिभुजेन समानम् । इदमेवास्माकमिष्टम् ॥ अथ पञ्चत्रिंशत्तमं क्षेत्रम् । तत्र चतुर्युजक्षेत्रद्वयं समानान्तरभुजमेकस्यां भूमावेक दिशि च भवति द्वयोः समानान्तररेखयोर्मध्ये च भवति तच तुभुजद्वयं समानं भवति । यथा अबजदचतुर्युजं हबजश्चतुर्मुजं चैते वै चतुर्युजे अक्ष रेखाबजरेखयोर्मध्ये बजरेखोपरि स्तः ते अ इ इ इ च समाने स्तः। अत्रोपपतिः । अदभुजः हप्तभुजश्च बजभुजेन समा- ४ - /
पृष्ठम्:Rekha Ganita.djvu/११८
दिखावट