आक्षिप्ते औपम्ये यथा--
विषहरणेन पिनाकिनमुज्जीवयता त्वयाऽच्युतानन्त । पीत्वा विषं विमुञ्चन् जीवनमम्भोधरः पराभूतः ॥ ६७९ ॥
अच्युतानन्तेति संबुद्धिद्वयं विषहरणेन शिवोज्जीवयितृत्वसामर्थ्याभिप्रायगर्भम् ॥
अच्युतानन्तगोविन्दमन्त्रमानुष्टुभं परम् । |
इति नामत्रयविधानोक्तेः । विषं पीत्वा जीवनं विमुञ्चन्निति योजना । अत्र इवादेस्सदृशादेश्च पदस्याभावात्पराभूतपदेनाक्षिप्तैवोपमा । विषहरणेनोज्जीवनमुपमेयोत्कर्षकं विषपानेन जीवनविमोचनमुपमानापकर्षकं चेत्युभयमुपात्तं श्लेषश्च स्फुटः ॥
यथावा--
अभियातिविपद्भुग्नः फणिराट्क्वचिदात्तभोगसंकोचः । धुतविपदा नित्योच्छ्रितभोगेन भुजेन स तव निर्धूतः ॥ ६७१ ॥
हे भगवन्निति प्रकरणाल्लभ्यते । फणिराट् वासुकिः ‘वासुकिस्तु सर्पराजः' इत्यमरः । अभियातिनः विपक्षात् या विपत् विपत्तिः तया भुग्नः रुग्णः ‘रुग्णभुग्ने' इत्यमरः । अत एव क्वचित् आत्तः स्वीकृतः भोगस्य सुखस्य संकोचो येन स तथोक्तः । पक्षे—अभियातीति भिन्नं पदं तिङन्तम् । क्वचित् आत्तः भोगस्य फणस्य संकोचो येन स तथोक्तः । फणस्य सर्वदाऽप्यविस्तृतत्वादिति भावः । ‘भोगस्सुखे स्र्यादिभृतावहेश्च फण-