पृष्ठम्:अलङ्कारमणिहारः.pdf/३९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
391
व्यतिरेकसरः (२२)

काययोः' इत्यमरः । विपत् पद्भिर्विहीनः गूढपात्त्वात्तथोक्तिः 'पदङ्घ्रिः' इत्यमरः । भुग्नः कुटिलः । 'आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि' इत्यमरः । अभियाति अभितो गच्छति प्रसिद्धं हि तस्य जिंहगत्वम् । स्पष्टमन्यत् । अत्र विवद्भुग्नत्वक्वचिदात्तभोगत्वे उपमानापकर्षके । धुतविपत्त्वनित्योच्छ्रितभोगत्वे उपमेयोत्कर्षके च द्वेद्वे अभिहिते । श्लेषस्सभङ्गोऽभङ्गश्चेति विशेषः पूर्वस्मात् । आक्षिप्ता उपमा तु तुल्यैव ॥

 यथावा--

 निरवधिवैभवभूम्ना धनाधिपोऽधःकृतस्त्वया तदपि । नाधिगतं पान्तममुं नाधिपमेवाखिलेश्वर प्राहुः ॥ ६७२ ॥

 हे अखिलेश्वर! निरवधिर्वैभवभूमा प्राभवातिशयो यस्य तेन तथोक्तेन त्वया । धनाधिपः वैश्रवणः केवलधनिक इति भावः ।अधःकृतः तिरस्कृतः । धकारविधुरश्च कृतः । शब्दार्थयो स्तादात्म्यम् ! तदपि तथाऽपि आधिं मनोव्यथां गतः प्राप्ता न भवतीतेि नाधिगतः तं तथोक्तं नशब्देन समासः । अत एव पान्तं धनं रक्षन्तमित्यर्थः । नाधिपमेव अनधिपमेव अधनाधिपमेव अनीश्वरमेव वा आहुः । अवधीरितत्वेऽपि भगवता निरपत्रपतया अविगणय्य मनोव्यथामपि यथापुरमेव स्वधनाधिपताप्रख्यापनाय रक्षन्तमपि धनं जनास्तन्मर्माभिज्ञा अनधिपमेवाहुरिति भावः । पक्षे-नाधिगतं नाधी नाकारं धिकारं च गतं ‘द्वितीया श्रित' इत्यादिना समासः । पान्तं पकारः अन्ते यस्य तं तथोक्तं अमुं धनाधिपं नाधिपमेवाहुः । धनाधिपशब्दस्य धकारलोपे नाधीति वर्णद्वयसाहित्ये पकारान्तत्वे च नाधिप इत्येव निष्पत्तेः । अत्र