पृष्ठम्:अलङ्कारमणिहारः.pdf/३९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
389
व्यतिरेकसरः (२२)

करौ धून्वन् । मन्दो बभूव भार्गवि मकरन्दस्स तु समः कथं तस्याः ॥ ६५८ ॥


 हे भार्गवि ! मकरन्दः आदौ त्वदधरसुधासमभिव्याहाराभावदशायां महितः स्वादुतया पूजितः । अनन्तरं त्वदधरसुधया विजितः अत एव करौ हस्तौ धून्वन् कम्पयन्नित्यवमानानुभावकथनम् । मन्दः स्वादिमभाग्यविधुरः ‘मूढाल्पापटुनिर्भाग्या मन्दाः' इत्यमरः । पक्षे -आदौ महितः मः मकारः हितः निहितः यस्य स तथोक्तः । मकारविशिष्ट इत्यर्थः । ततः करौ ककाररेफौ धून्वन् विसृजन्निति यावत् । मकरन्दः मकरन्दशब्दः मन्दः बभूव उक्तशब्दो मध्यस्थकरवर्णविसर्जने मन्द इति निष्पद्यत इत्यर्थः । सुगममन्यत् । अत्रापि पूर्ववदुपमानापकर्षकधर्ममात्रोपादानं, आर्थी चोपमा श्लेषश्च ॥

 कल्याणकोटिनयनो वज्रसहस्रातिदीप्तिकरमूर्तिः। कथमिन्द्रेण समस्स्यात्प्रथमः पुरुषः पृदाकुगिरिनाथः ॥ ६६९ ॥

 कल्याणानि शुभानि कोटिसंख्याकानि नयनानि लोचनानि यस्य स तथोक्तः । पक्षे - कल्याणकोटीनां मङ्गळकोटीनां नयनः प्रापकः नीयते अनेनेति नयनः लोकानामिति शेषः । वज्राणाम् दम्भोळीनां सहस्रैः अतिशयिता दीप्तिर्यस्य तथाभूतः करो हस्तो यस्यां सा तथोक्ता मूर्तिः यस्य सः । अन्यत्र वज्रसहस्राणां हरिसहस्राणां दीप्तिं करोतीति दीप्तिकरी मूर्तिर्यस्य स तथोक्तः । मूर्तेः श्यामलतया वज्रसहस्राणामाभरणन्युप्तानां परभागलाभाद्दीप्तिकरत्वमिति भावः । अत्रोपमेयोत्कर्षकधर्ममात्रोपादानं, आर्थी चोपमा श्लेषश्च ॥