यथा--
मलिनमपि गुणमहिम्ना महति पदे वस्तु मान्यतामेति । मृगनाभिस्सुरभितया भगवत इव निटिलफलकसीमायाम् ॥ १६६ ॥
न चात्र मलिनवस्तुमृगनाभ्योरुपमा शक्या वक्तुम् । तयोस्सामान्यविशेषभावेन सादृश्यस्यानुन्मेषात् । तथा सति तु इवादिशब्द इव सदृशादिशब्दा अप्यलंकारेऽस्मिन् प्रयुज्येरन् । अत्र मृगनाभिसुरभिताभगवद्वदनानि मलिनवस्तुगुणमहिममहापदानां विशेषाः । अत्र पद्ये इवशब्देनावयवावयविभावोक्तिः ॥
यथा वा--
संसर्गान्महतामिह सर्वज्ञेनापि लाल्यते कश्चित् । गरुडध्वजपदसङ्गाद्गङ्गापूरो यथा पुरामरिणा ॥
अत्र गरुडध्वजपदसङ्गादयो महत्संसर्गादीनां विशेषाः । अत्र यथाशब्देनावयवावयविभावोक्तिः ॥
यथा वा--
लोकोत्तरवस्तु वहन्नेको लोके महोन्नतिं धत्ते । काकोदरशिखरीन्द्रो निदर्शनं बिभ्रदत्र लोकेशम् ॥
एक इत्यस्य पदार्थ इति विशेष्यमुपस्कार्यम् । एवं पूर्वपद्ये कश्चिदित्यस्यापि । अत्र निदर्शनशब्देन ॥
यथा वा--
यत्र क्व वाऽस्तु जातस्तेजस्वी भवति भूषणं