पृष्ठम्:अलङ्कारमणिहारः.pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
96
अलंकारमणिहारे

महताम् । उदधौ जातश्श्रीपत्युरस्स्थितः कौस्तुभोऽत्र दृष्टान्तः ॥ १६९ ॥

 अत्र उदधिजातकौस्तुभौ यत्र क्व वा जाततेजस्विनोर्विशेषौ । एवमग्रेऽपि द्रष्टव्यम् । अत्र दृष्टान्तशब्देन ॥

 यथा वा--

 उत्तमचेतनसंश्रयदत्तातिशयो गिरीशतां धत्ते । कश्चिदचेतनभावेऽप्याश्चर्यमिह प्रमाणमहिशैलः ॥

 उत्तमचेतनः श्रेष्ठो जीवः, अन्यत्र भगवानित्यर्थः । गिरीशतां वाग्विषये ईश्वरत्वं, अन्यत्र शैलेन्द्रताम् । अविद्यमाना चेतना ज्ञानं यस्य तस्य भावे अज्ञत्वे इत्यर्थः । अन्यत्र चेतनभिन्नत्वे गिरेरचेतनत्वादित्यर्थः । अत्र प्रमाणशब्देन ॥

 यथा वा--

 त्वामन्तर्निदधानश्श्रीमन् खेटोपि भवति तेजस्वी । अम्बुजकदम्बबन्धोर्बिम्ब इह स्यादुदाहरणम् ॥ १७१ ॥

 खेटः कुत्सितः ‘कुपूयकुत्सितावद्यखेटगर्ह्याणकास्समाः' इत्यमरः । पक्षे--खे अटतीति खेटः गगनचारीत्यर्थः । 'तत्पुरुषे कृतिः’ इत्यलुक् । अत्रोदाहरणशब्देनावयवावयविभावकथनम् ॥

 यथा वा--

 अपि बहुषु वस्तुषु महानादत्ते स्वानुरूपवस्त्वे-