पृष्ठम्:अलङ्कारमणिहारः.pdf/३६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
363
व्यतिरेकालंकारसरः (२२)

 यथावा--

 अप्युच्चैर्जन्मजुषो जडजन्त्वनुगाः पतन्त्यधोऽध इति । मरुदात्मम्भरिपरिवृढगिरिशिखरान्निर्झराः प्रणिपतन्ति ॥ ६३० ॥

 अत्राधोऽधः पतन्तीति बोधयन्त इति वक्तव्ये बोधयन्त इत्यस्य गम्यमानत्वादप्रयोगः । ततश्व उच्चैः उन्नतप्रदेशे जन्मजुषोपि जडजन्त्वनुगामितया स्वयंपतनक्रियाविशिष्टा निर्झराः स्वकीयया पतनक्रियया दृष्टान्तभूतया अन्येऽप्येवंविधा अधोऽधः पतन्तीत्यनिष्टपर्यवसायिनमर्थं बोधयन्त एव पतन्तीत्येवंविधार्थनिबन्धनादसदर्थनिदर्शना श्लेषोत्तम्भितेति ध्येयम् ॥

इत्यलंकारमणिहारे निदर्शनासर एकविंशः.


अथ व्यतिरेकालंकारसरः.



उक्तः कश्चिद्विशेषश्चेदुपमानोपमेययोः।
तमाहुर्व्यतिरेकाख्यमलंकारं विचक्षणाः ॥

 अधुना भेदप्रधानालंकारवर्णनम् । तत्र उपमानोपमेययोर्यथाकथंचिद्भेदवर्णनं व्यतिरेकः। तेन उपमेयोत्कर्षे उपमानोत्कर्षे उभयोत्कर्षापकर्षाप्रतीतावपि यत्किंचिद्वैधर्म्यमात्रेऽप्ययं भवतीति ध्येयम् ॥