पृष्ठम्:अलङ्कारमणिहारः.pdf/३६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
362
अलंकारमणिहारे

त्वयि रुच्या प्रीत्या हीनः । पक्षे त्वद्रुच्यपेक्षया हीनः न्यूनरुचिरिति यावत् । आदौ प्रथमं अहन्ताममतयः अहंकारममकारयोः । अहंममेत्युभयमपि विभक्तिप्रतिरूपकमव्ययं, ताभ्यां तल् । आस्पदतां आश्रयतां एत्य अत एव असारः निस्सारः भूत्वा अहंममग्राहं अहंममाभिमानं अनर्थकारणं प्रथयति ।

अनात्मन्यात्मबुद्धिर्या अस्वे स्वमिति या मतिः ।
अविद्यातरुसंभूतिबीजमेतद्द्विधा स्थितम् ॥

इत्याद्युक्तरीत्या संसारचक्रभ्रमणपूर्वकनिस्सारतालक्षणानर्थहेतुतां बोधयतीत्यभिप्रायः । पक्षे- मसारशब्दः त्वद्रुचिहीनः मसारशब्दे भगवद्रुचिहीनतोक्तिश्शब्दार्थतादात्म्याभिमानकृता । हन्त अमं अतास्पदतामिति च्छेदः । आदौ प्रथमभागे अमं मकाररहितं यथास्यात्तथा अतास्पदतां अतायाः अवर्णत्वस्य आस्पदं आश्रयः अवर्ण इत्यर्थः । तस्य भावं अत्वं एत्य मकारलोपेन तत्रैवाकारतां प्राप्येत्यर्थः । 'न गिरा गिरेति ब्रूयादैरं कृत्वोद्गायेत्’ इत्यत्र गिरापदं प्रतिषिध्य विधीयमानभिरापदं यथा गिरापदस्थान एव भवति, एवमिहापि मवर्णं प्रतिषिध्य विधीयमानः अवर्णोपि तदीय एव स्थाने भवतीति ध्येयम् । एवं सर्वत्रेदृशस्थलेषु द्रष्टव्यम् । अत एव असारः भूत्वा उक्तरीत्या मकारात्सारणेन अकारन्यसनेन च असार इति निष्पन्न इत्यभिप्रायः । स्फुटमन्यत् । अत्र अहंताममतास्पदीभूततया भगवत्यरुचिं भजमानोऽसारोभवन्मसारः अहंममग्राहं उक्तविधानर्थकारणमित्यसदर्थं प्रथयन्निबद्धः । शब्दार्थतादात्म्यावलम्बिश्लेषभित्तिकाभेदाध्यवसायमूलातिशयनिर्व्यूढेयम् । एवं पूर्वोदाहरणेऽपि द्रष्टव्यम् ॥