पृष्ठम्:अलङ्कारमणिहारः.pdf/३७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
364
अलंकारमणिहारे

 तत्रोपमयोत्कर्षे यथा--

 उरगाचलपतिमानसमुदधेर्मध्यमिव भाति गम्भीरम् । मन्दरसंक्षुभितमभूच्चरमं प्रथमं तु नो कदाचिदपि ॥ ६३१ ॥

 मन्दरेण संक्षुभितं, पदो-मन्दो रसः यस्य तत् क्षुभितं व्याकुलितं च । स्पष्टमन्यत् ॥

 यथावा--

 अञ्जनगिरिनायकतनुरसितिमरुचिरा चकास्ति यमुनेव । तपनं दूरीकुरुते प्रथमा चरमा तु तपनतनुजाता ॥ ६३२ ॥

 तपनं नरकविशेषम् । तपनस्य भानोः तनुजाता तनया 'तपनो दुष्करेऽपि स्याद्भास्करे निरयान्तरे' इति मेदिनी ॥

 यथावा--

 किरणस्फुटारविन्दः प्रभावितानेमितस्फुरन्मूर्तिः। रविरिव हरिहेतीशस्स हि दुर्दर्शस्सुदर्शनोऽयं तु ॥ ६३३ ॥

 हरेर्भगवतः हेतीशः चक्रराजः रविरिव किरणैः स्फुटानि विकचानि अरविन्दानि यस्य स तथोक्तः । अन्यत्र-किरणैः स्फुटाः प्रव्यक्ताः ये अराः परितो नाभ्यर्पितशलाकाः 'अरं शीघ्रे च चक्राङ्के' इति मेदिनी । तान्विन्दतीति तथोक्तः । कर्मण्यण् । प्रभाविताने तेजोमण्डले । यद्वा प्रकृष्टा भाः येषां ते