पृष्ठम्:अलङ्कारमणिहारः.pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
73
उपमालंकारसरः (१)

प्रियः' इति यत् । उभयत्र ‘हृदयस्य हृल्लेखयदण्लासेषु’ इति हृदादेशः । चेतोहृत् मनोहरं पद्यं श्लोकं काव्यमित्यर्थः । उज्ज्वलयति प्रवर्तयतीति यावत् ॥

 श्रीपक्षे- च इतः हृत् इति त्रिपदतया छेदः । चशब्दो भिन्नक्रमः । इत इति सार्वविभक्तिकस्तसिः। अस्य श्रीनिवासस्येत्यर्थः । हृत् वक्षः पद्यं पदं चरणमस्मिन् दृश्यमिति पद्यं, यावकविलिप्तनिजचरणतलाङ्कितं सदित्यर्थः । पद्यं यथा स्यात्तथेति वा । ‘पदमस्मिन् दृश्यम्’ इति पदशब्दादुक्तार्थे यत् । उज्ज्वलयति च कौस्तुभाद्यपेक्षया उत्कृष्टत्वेन प्रकाशयति चेत्यर्थः । ज्वलतेर्णिजन्ताल्लटि घटादित्वेन मित्वाद्ध्रस्वः । अत्र ‘पूर्णं तेजस्स्फुरति भवतीपादलाक्षारसाङ्कम्' इत्यादिकमनुसन्धेयम् । अत्र प्रेक्षावत्परब्रह्मणोर्बिम्बप्रतिबिम्बभावः । हृद्या चेतोहृत्पद्यमिति श्लेषः, उज्ज्वलयतीत्युपचार इत्येतेषां मिश्रणम् ॥

 केवलबिम्बप्रतिबिम्बभाववस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभावश्लेषानुगामितानां यथा--

 भवन इवाखिलभुवने सुदीप्तिनिधयस्सुकीर्तिशेवधयः। दीपा इवाभिरूपाश्श्रीपरिबृढ संचरन्ति भवदीयाः ॥ ११६ ॥

 सुदीप्तिनिधयः दीपा इव सुकीर्तिशेवधयः भवदीयाः अभिरूपास्सन्तः भवनेष्विव भुवनेषु संचरन्तीति योजना । अभिरूपाः मनोहराः विद्वांसश्च । ‘प्राप्तरूपसुरूपाभिरूपा बुधमनोज्ञयोः' इत्यमरः । अत्र भवनभुवनयोः केवलं बिम्बप्रतिबिम्बभावः, निधिशेवध्योः वस्तुप्रतिवस्तुभावः, तद्विशेष्यकयोः दी-

  ALANKARA
10