पृष्ठम्:अलङ्कारमणिहारः.pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
74
अलंकारमणिहारे

प्तिकीर्त्योर्बिम्बप्रतिबिम्बभावः तत्करम्भितः अभिरूपा इति श्लेषः, संचरन्तीत्यनुगामित्वमित्येतेषां मिश्रणम् ॥

 अनुगामित्वश्लेषबिम्बप्रतिबिम्बभावोपचाराणां मिश्रणं यथा--

 जगति समन्तात्प्रथितं प्रविततसारस्वतोदितं नियतम् । अमृतमिव त्वच्चरितं सुरा इव नराः पिबन्ति मुरवैरिन् ॥ ११७ ॥

 सारस्वतं सरस्वत आगतं ‘तत आगतः’ इत्यर्थे प्राग्दीव्यतीयोऽण् । उदितं उदयः आविर्भावो यस्य तत्, प्रविततं च तत् सारस्वतोदितं चेति विग्रहः, विस्तृतं दुग्धोदधिजनितं चेत्यर्थः । पक्षे- प्रविततानि यानि सारस्वतानि सरस्वतीविभूतिभूतानि शास्त्राणि ‘यत्सारस्वतदुग्धसागर’ इत्यादिप्रयोगात् । तैः उदितं उदीरितम् । अत्र समन्तात्प्रथितत्वमनुगामी, प्रविततसारस्वतोदितमिति श्लिष्टः, अमृतचरितयोर्बिम्बप्रतिबिम्बभावापन्नः पिबन्तीत्युपचरितस्साधारणधर्म इत्येतेषां मिश्रणम् । एवमन्यैरपि व्यामिश्रणं सुधीभिरुन्नेयमतिभूमित्वादेषां दिङ्मात्रमुदाहार्ष्म । तथाचोक्तं काव्यालोके--

अर्पयन्तो विकल्पनां रूपकोपमयोर्यतः ।
दिङ्मात्रं दर्शितं धीरैरनुक्तमनुमीयताम् ॥ इति ॥

 'पूर्णायामेवेमे धर्मभेदाः । लुप्तायां तु नैवं भेदाः तस्यां साधारणधर्मस्यानुगामित्वनियमात्’ इति चित्रमीमांसाकृतः । रसगङ्गाधरकारस्तु नेमं नियममभ्युपैति । तथाच तद्ग्रन्थः— "यच्चाप्पदीक्षितैः लुप्तायां तु नैवं भेदाः तस्यां साधारणधर्म-