पृष्ठम्:अलङ्कारमणिहारः.pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
72
अलंकारमणिहारे

 असुरशीलः--

द्विविधो भूतसर्गोऽयं दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः ॥

इत्युक्तप्रकारेणासुरप्रकृतिरित्यर्थः । विद्यां ‘सा विद्या या विमुक्तये’ इत्युक्तां ब्रह्मविद्यां संशिक्षितोऽपि सम्यगनुशिष्टोऽपि वैशद्यं परतत्त्वबोधनं नैति ।

जन्मान्तरसहस्रेषु या बुद्धिर्भाविता पुरा ।
तामेव भजते जन्तुरुपदेशो निरर्थकः ॥

 नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ।

इत्याद्युक्तेरिति भावः । पक्षे--वैशद्यं धावळ्यं अन्यत्सुगमम् । अत्रासुरशीलत्वमलिनप्रकृतित्वयोर्वस्तुप्रतिवस्तुभावकरम्भितः बिम्बप्रतिबिम्बभावः शीलप्रकृत्योर्वस्तुत एकरूपयोर्विभिन्नशब्दाभ्यां निर्देशात्, तद्विशेष्यकयोः असुरमलिनयोर्वस्तुतोऽभिन्नयोरपि सारूप्येणैकत्वाध्यवसानाच्च । विद्यासंशिक्षितत्वशाणोल्लिखितत्वयोः केवलं बिम्बप्रतिबिम्बभावः । वैशद्यं नैतीति श्लिष्टस्समानधर्मस्ताभ्यामुत्तेजित इति द्रष्टव्यम् ॥

 श्लेषोपचारबिम्बप्रतिबिम्बभावमिश्रणं यथा--

 प्रेक्षावत इव साक्षात्परमस्य ब्रह्मणो वृषगिरीन्दोः । विद्येव श्रीर्हृद्या चेतोहृत्पद्यमुज्ज्वलयतीयम् ॥

 प्रेक्षावतः प्रज्ञाशालिनो जनस्येव साक्षात्परमस्य ब्रह्मणः श्रीनिवासस्य विद्येव काव्यच्छन्दोव्याकरणादिविद्येव श्रीः लक्ष्मीः हृदयस्था चित्तधृता अयातयामा सतीत्यर्थः । भवार्थे हृदयशब्दाद्दिगादित्वाद्यत् । अन्यत्र हृदयप्रिया सती ‘हृदयस्य