इत्यर्थः । त इव, अर्थगतं बहुत्वं शब्दे आरोप्यते । येन आचार्येण प्रतीपताभाजः प्रातिकूल्यभाजः कुदृशां वादाः शमिताः । स्पष्टमन्यत् ॥ १३ ॥
शरणगतजनपुनर्भवभयापनेता जयाय मे भवतात् । श्रीवासदेशिकेन्द्रोपपदश्रीब्रह्मतन्त्रयतिनेता ॥ १४ ॥
एकेन येन बुधता गुरुता कविता च दर्शिताविधुता । दुर्ग्रहबाधां शमयतु स श्रीरङ्गेन्द्रकलिरिपुयतीन्द्रः ॥ १५ ॥
येन एकेनैव विधुता चन्द्रता पक्षे अविधुता अप्रकम्पिता अन्यापरिभावनीयतेत्यर्थः । बुधता सौम्यता प्राज्ञता च, गुरुता वाक्पतिता आचार्यता च कविता भार्गवता काव्यकर्तृता च दर्शिता । दुर्ग्रहबाधां दुष्टग्रहाणां कुजादीनां पीडां दुराग्रहव्यसनितां च शमयतु । एकस्यैवास्य चन्द्रबुधादिशुभग्रहरूपत्वात् दुर्ग्रहबाधाशमनपटीयस्त्वमस्तीति भावः । अन्यत्सुगमम् ॥१५॥
तातार्यस्य गुरोर्मे ख्यातात्मगुणस्य चरणनळिनयुगे । अतिवेलं लगतु मनः प्रतिलोमं वाऽनुलोमं वा ॥ १६ ॥
प्रतिलोमं मनः नम इत्यर्थः । प्रतिलोमानुलोमशब्दयोः ‘अच्प्रत्यन्ववपूर्वोत्सामलोम्नः' इत्यच् ॥ १६ ॥
नवदुर्गतातदेशिककृष्णाम्बासूनुरातनोतीमम् । श्रीशैलान्वयजन्मा कृष्णोऽलङ्कारमणिहारम् ॥ १७