पृष्ठम्:अलङ्कारमणिहारः.pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
7
उपोद्घातः

 अतिमात्रा प्रतिपत्तिश्श्रीशे यस्याद्भुता जनैर्ददृशे । सुमहान्परकालमुनिस्स मदन्वयशेखरो गुरुर्जयतात् ॥ १२ ॥

 यस्य गुरोः श्रीशे भगवति विषये अतिमात्रा मात्रामतिक्रान्ता अतिवेला प्रतिपत्तिः गौरवं प्रबोधो वा-

प्रतिपत्तिः प्रवृतौ च प्रागल्भ्ये गौरवेऽपि च ।
संप्राप्तौ च प्रबोधे च पदप्राप्तौ च योषिति ॥

इति मेदिनी । पक्षे–अविद्यमानं तिमात्रं तिवर्णमात्रं यस्यां सा प्रतिपत्तिः प्रपत्तिः भरन्यसनमित्यर्थः । प्रतिपत्तिशब्दे तिवर्णापनयने प्रपत्तिरिति निष्पत्तेः, शब्दार्थयोस्तादात्म्यमिह शरणम् । अद्भुता आश्चर्यावहा सती जनैः ददृशे । भगवति यस्य गौरवं ज्ञानं प्रपदनं चात्याश्चर्यावहतया जनैर्दृष्टानीत्यर्थः । प्रपदनस्याश्चर्यत्वं च अनेनाचार्येणातिमात्रार्ततया प्रपदनमनुष्ठाय स्वाभीप्सित एव समये मोक्षसाम्राज्यस्यासादितत्वादिति तद्वैभवप्रकाशिकादिषु सुस्पष्टम् । ददृशे इत्यनेन सर्वलोकसाक्षिकत्वमीदृशप्रपदनस्य दर्शितम् । मदन्वयस्य विद्यया जन्मना च मद्वंशस्य शेखरः । उभयोरपि श्रीशैलघनगिर्यप्पलार्यवंश्यत्वात्तथोक्तिः ॥ १२ ॥

 वादाः कुदृशां शमिता जलदेनेव प्रतीपताभाजः । येन स गुरुर्विजयतां श्रीवासब्रह्मतन्त्रपरकालः ॥ १३ ॥

 जलदेन प्रतीपताभाजः प्रतिलोमतां प्राप्ता वादाः दावाः