पृष्ठम्:अलङ्कारमणिहारः.pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
9
उपोद्घातः

 श्रीश्रीनिवासमनुपममुपमाद्यैरखिलजगदल ङ्कारम् । अञ्चामोऽलङ्कारैर्वाञ्छामस्माकमेष सफलयतात् ॥ १८ ॥

 चपलोसावुद्युङ्क्ते विपुलालङ्कारवर्णनव्याजात् । भगवत्स्वरूपरूपप्रभावगुणविभवलेशमभिधातुम् ॥

 वाणीं हरिगुणभणनात्कृतार्थयितुमेव कृतिरियं क्रियते । ललिततया बालानामुपकुर्याच्चेत्प्रकाममुपकुरुताम् ॥ २० ॥

 आरचये कृतिमेतामात्मीयैर्लक्ष्यलक्षणैरेव । यक्षाधिपो नवनिधिर्भिक्षाक इवान्यवसु किमादत्ते ॥ २१ ॥

 आनुष्टुभेन लक्षणमार्याजातेन लक्ष्यजातमपि । वृत्तेन विरचयेऽहं यत्तेन प्रीयतां फणिगिरीशः ॥ २२

 श्रीपतिरहिगिरिनिलयः प्रापयतु नितान्तहृद्यतामेनम् । स्वोपज्ञलक्ष्यलक्षणरूपमलङ्कारमणिहारम् ॥ २३ ॥

 देवच्छन्दोऽनुगुणो दीव्यादुपमादिसरससरशतभाक् । लक्ष्मीवल्लभहृदये ललितोऽलङ्कारमणिहारः ॥ २४ ॥

 ALANKARA
2