पृष्ठम्:अलङ्कारमणिहारः.pdf/२७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
273
उत्प्रेक्षासरः (१४)

स्मितमिषतः तव वदने अभूत् अजनि । भगवन्मुखजन्यत्वे ब्राह्मण्यसिद्धया पादजताप्रयुक्तसंकोचोऽपयातीति भावः ।

 यथावा--

 अनुकूलनगभिदोऽमी कनकाद्रौ सर्वतो विसर्पन्तः । तारकजयिशरजाता न निर्झराः किंतु निर्जरा नूनम् ॥ ४७३ ॥

 अनुकूलं कूले । विभक्त्यर्थेऽव्ययीभावः । ये नगाः तरवः तान् भिन्दन्ति उन्मूलयन्तीति तथोक्ताः । पदे अनुकूलः नगभित् वज्री येषां ते तथोक्ताः । कनकाद्रौ शेषशैले सुमेरौ च। सर्वतः विसर्पन्तः प्रवहन्तः संचरन्तश्च । तारकाण्युडूनि जयन्तीति तथोक्तानि शराणां काशकुसुमानां जातानि बृन्दानि येषु ते तथोक्ताः । पक्षे तारकमसुरविशेषं जयतीति तथोक्तः शरजातः षण्मुखः येषां ते तथोक्ताः अमी दृश्यमानाः वस्तुविशेषाः निर्झराः वारिप्रवाहाः न किंतु निर्जरा एव नूनम् । इयं श्लेषसंपादितसाधारण्या शुद्धापह्नुतिगर्भा जातिस्वरूपोत्प्रेक्षा ।

 यथावा--

 अश्रीनिवासनिलयानसर्वतीर्थाश्रयानवेदमयान् । अन्यानचलानहिगिरिरवधीरयतीव हरिनिनादमिषात् ॥ ४७४ ॥

 हरीणां सिंहानां निनादमिषात् । इयं सापह्नवक्रियास्वरूपोत्प्रेक्षा । इयं पर्यस्तापह्नुतिगर्भाऽपि संभवतीति दीक्षिताः ।

 ALANKARA
35