पृष्ठम्:अलङ्कारमणिहारः.pdf/२८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
274
अलंकारमणिहारे

 यथा--

 स्थानेऽयमेव विष्णुर्जानेऽखिलभुवनवर्धनादिन्दुः । इन्दोस्तु स्फुटमस्मादधरत्वं स हि पदेऽस्य परिचरति ॥ ४७५ ॥

 अखिलस्य भुवनस्य सलिलस्य न तु जलधिसलिलमात्रस्येति भावः । पक्षे जगतः वर्धनात् उत्सेचनात् समेधनाच्च अयं विष्णुरेव इन्दुरिति स्थाने युक्तं जाने इन्दोस्तु अस्मात् विष्णोः अधरत्वं निहीनत्वं स्फुटम् । हि यस्मात् सः इन्दुः अस्य विष्णोः पदे चरणे सप्तम्येकवचनं, तेन अकारे परतः प्रकृतिभावशङ्काया नावकाशः । परिचरति शुश्रूषते । तस्मादधरत्वं व्यक्तमित्यर्थः । पक्षे अस्मात् वक्ष्यमाणादेतस्माद्धेतोरित्यर्थः। अधरत्वं धरासंबन्धवैधुर्यं स्फुटम् । कुत इत्यत्राह- स इति । हि यस्मात् सः इन्दुः अस्य पदे विष्णोः पदे व्योम्नीत्यर्थः । परिचरति परितस्संचरतीति । अत्र प्रसिद्धेन्दौ इन्दुत्वापह्नवेन सकलभुवनाभिवर्धनान्निमित्ताद्भगवति तत्संभावनेतीयं पर्यस्तापह्नुतिगर्भा॥

 यथावा--

 विबुधैकाधारश्श्रीवृषगिरिरच्युत न मेरुरिति मन्ये । यदि विबुधैकाधारो मेरुस्स्यात्स हि न कर्बुरमयस्स्यात् ॥ ४७६ ॥

 विबुधानां देवानामेकेषामेवाधारः शिवभागवतवत्समासः । पक्षे विबुधानां मुख्याधारः । मेरुः विबुधैकाधारो यदि स्यात् तदा सः कर्बुरमयः रक्षोमयः न स्यात् सुवर्णमय इति तु