पृष्ठम्:अलङ्कारमणिहारः.pdf/२७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
272
अलंकारमणिहारे

 यथावा--

 वदनेन्दावमृतरसास्वादात्काटवजिहासया लग्ने । निम्बदळे एते नन्वम्ब भ्रूयुगमिषेण तव मन्ये ॥

 अत्र भ्रूयुगळनिह्नवेन निम्बदळयुगळस्वरूपोत्प्रेक्षेयम् । यद्यपि अमृतरसास्वादनिमित्तककाटवजिहासाहेतुकत्वमपि निम्बदळयोर्जगज्जननीवदनेन्दुलग्नतायामुत्प्रेक्ष्यते । तथाऽपीयमुक्तस्वरूपोत्प्रेक्षाया अङ्गतया निबद्धेति न प्राधान्यमस्याः । यत्र ह्युत्प्रेक्षाद्वयमङ्गाङ्गिभावेन निबध्यते तत्र प्रधानभूतयैवोत्प्रेक्षया व्यपदेशो न्याय्य इत्यवोचाम, तन्न प्रस्मर्तव्यम् ।

 यथावा--

 स्वयमपि मुक्ताभिख्यां लब्धुं रदनावळिच्छलाद्वज्राः । जाने मुखरुचिजलधौ जाता मातस्तवास्यशुक्तिपुटे ॥ ४७१ ॥

 मुक्ता इत्यभिख्यां अभिधानं शोभां च । अत्र रदनावळिनिह्नवेन वज्रतादात्म्योत्प्रेक्षायाः मुक्ताभिख्यां लब्धुमिति फलोत्प्रेक्षा मुखरुचिजलधावित्यादिरूपकं चाङ्गतया निबद्धे ॥

 यथावा--

 ब्रह्मादिपावयित्र्याः पादजता नोचिता ममेति तव । वदने स्मितमिषतोऽभून्मन्ये गङ्गा भुजङ्गशिखरीन्दो ॥ ४७२ ॥

 ब्रह्मादेः ब्राह्मणादिवर्णस्य चतुर्मुखादिकस्य च । पावयित्र्याः मम पादजता शूद्रता चरणजन्यता च नोचितेति गङ्गा