जकोपि स्वप्रयोज्यश्रवणविवरातिमात्रपरिपूरणप्रयुक्तश्रावणज्ञानसामान्यशून्यत्वस्य तथाविधसंभावनानिमित्तस्योत्तम्भनेनानुकूल्यसंपादनादुपयुज्यते ॥
विषयोप्युपात्तः पूर्वोदाहरणेषु प्रतिपादित एव । क्वचिद्विषयोऽपह्नुतोपि भवति । यथा-
मत्सुहृदिन्दुसगोत्रं मुखमिदमित्युत्पलेन नीलेन । सत्कर्तुमर्पितं तद्दळमेकं हरिमुखे नु तिलकनिभात् ॥ ४६८ ॥
अत्र तिलकरूपविषयापह्नवो नीलोत्पलैकदळतादात्म्यसंभावनादार्ढ्यायेति ध्येयम् ॥
इयमेव सापह्नवोत्प्रेक्षेति प्रतिपादयताऽलंकारसर्वस्वकृता स्वरूपोत्प्रेक्षामात्रमुदाजह्रे | कुवलयानन्दचित्रमीमांसयोस्तु हेतुफलोत्प्रेक्षे अपि सापह्नवे दर्शिते । तत्र स्वरूपोत्प्रेक्षा अनुपदमेवोदाहृता । यथावा-
कनति किल रत्नगर्भास्तन इव पवनोदरंभरिगिरीन्द्रः। चूचुकमिव हरिकपटान्मेचकममृतं ददाति निजमुखतः ॥ ४६९ ॥
अमृतं पयः निश्श्रेयसं च निजमुखतः स्वाग्रभागात् । पक्षे स्वेनैवोपायेन । उपायस्थाननिविष्टेनेति भावः । ‘मुखं निस्सरणे वक्त्रे' प्रारम्भोपाययोरपि' इति मेदिनी । ‘उपायस्स्वप्राप्तेरुपनिषदधीतस्स भगवान्’ इति ह्यन्वगृह्यताचार्यैः । यत्र हरित्वमपह्नुतं तत्रैव चूचुकसंभावनाच्छुद्धापह्नुतिगर्भत्वम् । इवशब्दमहिम्ना संभावनं कपटशब्दप्रयोगादपह्नवो गम्यते ॥