लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०३८

विकिस्रोतः तः
← अध्यायः ०३७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३८
[[लेखकः :|]]
अध्यायः ०३९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो ब्रह्मा स्वयंभूर्भगवान्प्रभुः ।
सिसृक्षुर्जीवसंघातानभिध्यानमथाऽकरोत् ।। १ ।।
सत्यलोके मम सृष्टिर्मानसी सात्त्विकी भवेत् ।
इत्येवं ध्यायतस्तत्र ब्राह्मणाः सात्त्विकाश्च ये ।। २ ।।
ऊर्ध्वस्रोतस एवैते परं चोर्ध्वं व्यवस्थिताः ।
व्यवर्तन्त यत ऊर्ध्वमूर्ध्वस्रोतस आमताः । । ३ ।।
ते सुखप्रीतिबहुला अन्तर्बहिश्च सद्व्रताः ।
प्रकाशा बहिरन्तश्च ब्रह्मस्रोतस एव च ।। ४ ।।
ऋषयस्ते सदा ऋषेर्ब्रह्मणो ज्ञानसंभृतेः ।
ऋषेर्वेदस्य विज्ञानादृषयस्ते सदा मताः । । ५ । ।
ऋषीत्येव गतौ धातु श्रुतौ सत्ये तपस्यथ ।
एतत्सन्नियतस्तस्मिन् ब्राह्मणः स ऋषिः स्मृतः । । ६। ।
निवृत्तिसमकालन्तु बुद्ध्याऽव्यक्तमृषिः स्वयम् ।
परं हि ऋषते यस्मात्परमर्षिस्ततः स्मृतः । । ७। ।
गत्यर्थाद् ऋषतेर्धातोर्नामनिर्वृत्तिरादितः ।
यस्मादेषः स्वयंभूतस्तस्माच्च ऋषिता मता ।। ८ ।।
ईश्वराः स्वयमुद्भूता मानसा ब्रह्मणः सुताः ।
यस्मान्न हन्यते मानैर्महान्परिगतः पुरः ।। ९ ।।
यस्मादृषन्ति ये धीरा महान्तं सर्वतो गुणैः ।
तस्मान्महर्षयः प्रोक्ता बुद्धेः परमदर्शिनः ।। 1.38.१ ०।।
ब्रह्मचारिण एवैते सन्ति वेधःसमायुषः ।
भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च ।। ११ ।।
आनन्दं ब्रह्मणः प्राप्य सन्त्यैश्वर्येण तत्समाः ।
अष्टाशीतिसहस्राणि ऋषयस्तूर्ध्वरेतसः ।। १२।।।
ब्रह्मणो मानसाः सर्वे जाताः सत्यनिवासिनः ।
तेषां तु नामधेयानि यथापेक्षं दधात्यजः ।। १ ३।।।
अथाऽभिध्यायतः सर्गो ज्ञानस्रोतोऽभ्यवर्तत ।
ऋषयो ज्ञानिनो दिव्या ज्ञानात्मबलपूर्वकाः ।। १४।।
संन्यासा ब्रह्मरन्ध्रात्तु ब्रह्मणः समजज्ञिरे ।
वैखानसा बालखिल्या औदुम्बराश्च फेनपाः ।। १५।।
कुटीचकाश्च बह्वोदा हंसाः परमहंसकाः ।
अष्टौ संन्यासिनो भेदास्तत्राऽऽद्यास्तु सहस्रशः ।। १६।।
सन्ति षष्टिसहस्राणि बालखिल्या महर्षयः ।
तदन्ये कोटिशो बोध्या औदुम्बरप्रभतियः ।। १७।।
अथाऽभिध्यायतस्तस्य ऋभुरग्निर्बभूवतुः ।
पुनश्च ध्यायतस्तस्य दश पुत्राः प्रजज्ञिरे ।। १८।।
लोकसन्तानकर्तारो ज्ञानविज्ञानविद्वराः ।
मरीचिरत्र्यंगिरसौ पुलस्त्यः पुलहः क्रतुः ।। १९।।
भगुर्वशिष्ठो दक्षश्च दशमस्तत्र नारदः ।
उत्संगान्नारदो जज्ञे दक्षोंऽगुष्ठात्तु वेधसः ।।1.38.२०।।
प्राणाद्वशिष्ठः संजातो भृगुस्त्वचः करात् क्रतुः ।
पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर्ऋषिः ।।।२१।।।
अंगिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ।
पुण्यस्तु दक्षिणस्तनात् पापो जातस्तु पृष्ठतः ।।२२।।
छायायाः कर्दमो जज्ञे त्रयस्तेऽपि च मानसाः ।
अथाऽभिध्यायतो जज्ञे स्वायंभुवमनुस्तथा ।।२३।।।
शतरूपा च तत्पत्नी दम्पती तौ बभूवतुः ।
ताभ्यां मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे ।।२४।।
अथाऽभिध्यायतस्तस्य जज्ञिरे ऋषयस्त्विमे ।
वंशविस्तारयितारो लोकसन्तानहेतवः ।।२५।।
युगे तु प्रथमे सर्व मानसाः संभवन्ति हि ।
कल्पान्तरे तु ते केचिज्जायन्ते वंशजा अपि ।।२६।।
योनिजाऽयोनिजत्वे तु विष्णोरिच्छैव कारणम् ।
येषां यत्र यदाऽपेक्षा तदा तान्प्रेरयत्यपि ।।२७।।
दिशः काव्यानि रागाश्च सूक्ष्माणि विषयाणि च ।
इन्द्रियाणि तथा प्राणा ब्रह्मणो मानसानि वै ।।२८।।
रुचिरग्निस्तथा मेधा ब्रह्मणो मानसाश्च ते ।
काव्यो बृहस्पतिश्चैव कश्यपश्चोशनास्तथा ।।२९।।
उतथ्यो वामदेवश्च सयोज्यश्चौशिजस्तथा ।
कर्दमो विश्रवाः शक्तिर्बालखिल्यास्तथाऽधराः ।।1.38.३० ।।
श्वेतश्च ऋषयो ज्ञानान्मानसा ब्रह्मणो मताः ।
वत्सरो नग्रहूश्चैव भारद्वाजोऽनलायनः ।।।३ १।।
बृहदुक्थः शरद्वाँश्च ह्यगस्त्यश्चौशिजस्तथा ।
ऋषिर्दीर्घतमाश्चैव बृहद्ग्रन्थः शरद्वतः ।।३२।।
वाजश्रवाः सुवित्तश्च सुवाग् वेषपरायणः ।
दधीचः शंखमाँश्चैव राजा वैश्रवणस्तथा ।।३३ ।।
एतेऽपि मानसाः सर्वे सत्येन ऋषयो मताः ।
भृगुः काव्यः प्रचेतास्तु दधीचो ह्यात्मवानपि ।।३४।।
और्वोऽथ जमदग्निश्च विदः सारस्वतस्तथा ।
अद्विषेणो ह्यरूपश्च वीतहव्यः सुमेधसः ।।।३५।।
वास्तुः पृथुर्दिवोदासः पश्वास्यो गृत्समान्नभः ।
अत्रिरर्चिसनश्चैव श्यामवाँश्चाथ निष्ठुरः ।।३६।।
वल्गूतको मुनिर्धीमाँस्तथा पूर्वातिथिश्च यः ।
इत्येते मानसाः पूर्वे मन्त्रैस्ते ऋषयो मताः ।।३७।।
अंगिरा वैधसश्चैव भारद्वाजोऽथ बाष्कलिः ।
अमृतश्च तथा गार्ग्यः श्येनी संहृतिरित्यपि ।।३८।।
पुरुकुत्सश्च ऋषभः कण्वश्चैवाऽथ मुद्गलः ।
उतथ्यश्च भरद्वाजस्तथा वाजश्रवा अपि ।।३९।।
आप्यायश्च सुवित्तिश्च वामदेवस्तथैव च ।
कक्षिवानौगजो दीर्घतपा व्यासश्च देवलः ।।1.38.४०।।
कश्यपो विभ्रमो रैभ्योऽसितश्चैव पराशरः ।
वशिष्ठो याज्ञवल्क्यश्च मैत्रावरुण एव च ।।४१।।
इन्द्रप्रमीतिः कुण्डिश्च कुशश्च पिप्पलायनः ।
गोपालः कम्भरा चेति दम्पती ब्रह्मणः प्रजाः ।।४२।।
इत्यासन् मानसाः पूर्वे पश्चात्ते योनिजा अपि ।
अन्येऽपि मानसाः पश्चाजाता योनिसमुद्भवाः ।।।४३।।
तेषां वंशप्रवंशाश्चाऽभवन् यैः पूरितं जगत् ।
कल्पे कल्पे प्रजायन्तेऽन्येऽन्ये ब्रह्माज्ञया पुनः ।।४४।।
लोकसंग्रहकर्तारस्ततः सत्यं प्रयान्ति ते ।
वेधःसालोक्यसायुष्यसार्ष्टिभाजो भवन्ति च ।।४५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सत्यलोकीयऋष्यादिमानसीसृष्टिकथनंनामाऽष्टात्रिंशोऽध्यायः ।।३८।।