लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०३९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३९
[[लेखकः :|]]
अध्यायः ०४० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि पितॄँस्तु मानसान् बहून्।
ब्रह्मणः सृजतः पुत्रान् जज्ञिरे पितरोऽस्य वै ।। १ ।।
मध्वाद्यः षड्ऋतवः पितरः समजज्ञिरे ।
अग्निष्वात्तास्तथा बार्हिषदास्ते मानसाः खलु ।। २ ।।
आज्यपाः सोमपाश्चैते पितरो मानसा अपि ।
अयज्वानस्तथा तेषामासन्वै गृहमेधिनः ।। ३ ।।
अग्निष्वात्तास्तु ये ते वै पितरोऽनाहिताग्नयः ।
यज्वानस्तेषु ये ते तु पितरः सोमपीथिनः ।। ४ ।।
ये च बार्हिषदास्ते वै पितरस्त्वग्निहोत्रिणः ।
ऋषयः पितरश्चैते ब्रह्मसंकल्पजा हि ते ।। ५ ।।
मधुमाधवौ रसाक्तौ शुचिशुक्रौ तु शुष्मिणौ ।
नभनभस्यौ जिवाविषोर्जौ तु सुधया प्लुतौ ।। ६ ।।
सहसहस्यौ समन्यू तपस्तपस्यौ घोरकौ ।
त इमे ऋतवो द्वन्द्वाः कार्यकारणरूपिणः ।। ७ ।।
तत्र ये ब्रह्मणः पुत्रा मानसास्तेऽभिमानिनः ।
कार्यस्थलं कलाकाष्ठामाससंवत्सरादिकम् ।। ८ ।।
स्थानिनस्त्वभिमानज्ञाश्चेतनाः पितरो हि ते ।
संवत्सरो महान् कालस्तत्पुत्राः ऋतवः स्मृताः ।। ९ ।।
युगाः कल्पास्तु ये ते तु महत्तर महत्तमाः ।
कार्यकारणरूपा वै पितरो ब्रह्मसूद्भवाः ।। 1.39.१ ०।।
ऋत्वात्मजा दिनाद्या आर्तवास्तेषां कलादयः ।
आर्तवेयाः सुताः स्थानेश्वराः स्थात्मका अपि ।। १ १।।
प्रजापतिः स्वयं ब्रह्मा संवत्सरादिरूपधृक् ।
संवत्सरः स्वयमग्निर्ऋतमित्यर्थकस्तु सः ।। १ २।।
ऋतात्तु ऋतवस्तेभ्यो मासाश्च आर्तवा मताः ।
द्विपदां च चतुष्पदां पक्षिणां सर्पतां तथा ।। १ ३।।
स्थावराणां च यत्पुष्पं तद्वै कालार्तवं मतम् ।
कार्यहेत्वोरभेदाश्च नामैक्यं पितृबोधकम् ।। १४।।
इत्येवं पितरो ज्ञेया ऋतवश्चार्तवास्तथा ।
सर्वभूतानि तेभ्योऽथ ऋतुकालात्प्रजज्ञिरे ।। १५।।
तस्मादेतेऽपि पितरः आर्तवा ब्रह्मणाः कृताः ।
जज्ञातेऽथ च पितृभ्यः कन्ये मेना च धारणी ।। १ ६।।
योगिन्यौ ब्रह्मवादिन्यौ पित्र्यौ ते चापि सम्मते ।
बार्हिषदास्तु तां मेनां पत्नीं हिमवते ददुः ।। १७।।
मैनाको मेनया जातो धारण्या मन्दरस्ततः ।
कन्या वेला नियतिश्च आयतिश्चापि जज्ञिरे ।। १८ ।।
धातुश्चैवाऽऽयतिः पत्नी विधातुर्नियतिः स्मृता ।
सुषुवे सागराद्वेला सामुद्रीं कन्यकां शुभाम् ।। १९ ।।
सावर्णिना च सामुद्री सुषुवे दशपुत्रकान् ।
प्राचीनबर्हिषस्ते व प्रचेतस इति दश ।।1.39.२० ।।
तेभ्योऽथ कन्यकां वार्क्षी ददुर्वक्षास्ततः परम् ।
प्राचेतसोऽभवद् दक्षः, दक्षान्ताः पितरः स्मृताः ।। २१ ।।
पत्न्यश्च ताः पित्र्यो बह्व्यस्तपोलोके वसन्ति वै ।
सर्वा सा मानसी सृष्टिर्मन्वन्तरे तु योनिजाः ।। २२।।
अथापि सत्यलोकस्था ये वै ऋषय ईरिताः ।
तेषां वंशेषु चोत्पन्नाः पितरस्तेऽपि कीर्तिताः ।। २३ ।।
भृगुरंगिरा मरीचिः पुलस्त्यः पुलहः क्रतुः ।
अत्रिश्चैव वशिष्ठश्च ह्यष्टौ ते ब्रह्मणः सुताः । ।२४।।
एभिस्तु मानसैः पुत्रैर्ब्रह्मणा प्रेरितैस्तदा ।
उत्पादितास्तपोलोकवासिनः पितरस्तथा ।।२५।।
ते भार्गवाश्चांगीरसो मारीचाश्च तथा परे ।
पौलस्त्याः पौलहाश्चैव क्रातवाश्च तथा परे ।। २६ ।।
आत्रेयाश्च तथा वाशिष्ठा इति लोकविश्रुताः ।
पितॄणा ते गणाः प्रोक्तास्तपोलोकनिवासिनः ।। २७ ।।
तत्र केचिदमूर्ताश्च प्रकाशाश्च तथाऽपरे ।
ज्योतिष्मन्तस्तथा चान्ये भवन्ति पितरो हि ते ।। २८ ।।
दक्षपुत्राश्च हर्यश्वाः शवलाश्वास्तथा पुनः ।
दशसाहस्रसंख्याकाः सहस्राणि च पंच च ।। २९।।
ते सार्धैकसहस्रं वै सर्वे तु ब्रह्मवर्चसः ।
एते तपःपथं प्राप्य वर्तन्ते तपआस्थिताः ।। 1.39.३० । ।
नारदस्योपदेशेन ब्रह्माऽन्वेषणतत्पराः ।
तपोलोकमुपागम्य तिष्ठन्ति दिव्यकान्तयः ।। ३१ ।।
त एते पितरः सर्वै प्रजाकल्याणकारकाः ।
ऋभुः सनत्कुमाराद्याः क्वचित्तिष्ठन्ति तापसे ।। ३२।।
तपसि कार्यवाहार्थं, ध्यानार्थं तु सति स्थिता ।
मरीचिः कश्यपो दक्षो वशिष्ठश्चांगिरा भृगुः ।। ३३ ।।
पुलस्त्यः पुलहश्चैव क्रतुरित्येवमादयः ।
पूर्वं तु सम्प्रसूयन्ते ब्राह्मणो मनसा सह ।। ३४। ।
ततः प्रजाः प्रतिष्ठाप्य जनमेवाऽऽश्रयन्ति ते ।
यामादयो गणाः सर्वे महर्लोकनिवासिनः ।।३५।।
महर्लोकविनाशे तु जनमेवाऽऽश्रयन्ति ते ।
सर्वे सूक्ष्मशरीरास्ते तत्र गत्वा भवन्ति हि ।।३६।।
तेषां ते तुल्यसामर्थ्यास्तुल्यमूर्तिधरास्तथा ।
जनलोके विवर्तन्ते यावद्रात्रिस्तु वेधसः ।।३७।।
तत्रापि पूर्वकल्पानां पुण्यख्यातिबलान्विताः ।
प्रजापतय ये चाऽऽसन्निवृत्ताधिपतित्वतः ।।३८।।
निवृत्तवृत्तयः सर्वै स्वस्थाः सुमनसस्तथा ।
तपोलोकं प्रपद्यन्ते जनमुत्सृज्य तैः सह ।।।३९।।
मन्वन्तराणां च स्वायंभुवाद्यानां जने स्थितिः ।
विनिवृत्ताधिकाराणां देवानां महसि स्थितिः ।।1.39.४०।।
शुक्राद्याश्चाक्षुषान्ताश्च मन्वन्तरा भवन्ति ये ।
ते महर्लोकसंस्थाश्च ब्रह्ममानससंभवाः ।।४१ ।।
मरीचिः कश्यपो दक्षस्तथा स्वायंभुवोंऽगिराः ।
भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ।।४२।।
लोकयात्राप्रवाहाय महर्लोकेऽपि यान्ति हि ।
प्रजानां पतयः सर्वे वर्तन्ते तत्र तैः सह ।।४३।।
सत्यस्था अपि कार्यार्थमिह चायान्त्यभीक्ष्णशः ।
कार्यं सम्पाद्यते सर्वे पुनर्यान्ति स्वकं गृहम् ।।४४।।
लोकाः सोमपदा नाम महर्जनमिति स्मृताः ।
पितरस्तत्र वर्तन्ते ह्यग्निष्वात्तादयश्च ते ।।४५।।
वसवश्चापि वर्तन्ति अमावस्वादयस्तु ते ।
सुसूक्ष्मा अग्निस्फुल्लिंगा ते वै पितरो देवताः ।।४६।।
विरजायास्तु ये पुत्रा वैराजा नाम ते गणाः ।
अग्निष्वात्ताः स्मृतास्तत्र पितरो भास्वरप्रभाः ।।४७।।
स्वधापुत्रास्तथा स्वाहापुत्रा ये ज्योतिभास्वराः ।
मरीचिगर्भास्ते तत्र पितरो ह्यग्निरूपिणः ।।४८।।
आज्यपा नाम पितरो ये भवन्ति विहंगमाः ।
मानसा नाम तल्लोका भवन्ति यत्र ते स्थिताः ।।४९।।
विरजस्य तु पुत्रा ये वैराजा नामतो मताः ।
भास्वराः पुण्यभक्ष्याश्च ह्यमूर्तय गणास्तु ते ।।1.39.५०।।
पितॄणां या दुहितरो दौहित्राश्च तु ये मताः ।
पितरो वंशविस्तारा बोध्या भिन्ननिवासिनः ।।५ १ ।।
पृथ्व्यां साध्वीसाधुरूपा अन्तरिक्षेऽनिलात्मकाः ।
स्वर्गे देवात्मका महर्जनतपस्सु मानसाः ।।।५२।।
पितरः संवसन्तीति मूर्ताऽमूर्तस्वरूपिणः ।
आदिदेवास्तु ते सर्वे महासत्त्वा महौजसः ।।५३।।
सर्वकामप्रदास्तृप्ता रुष्टाः सर्वहरा मताः ।
तस्मात् सर्वप्रयत्नेन तोषणीयाः सदा हि ते ।।५४।।
महरादौ स्थिता ये वै तेषां सिद्धिस्तु मानसी ।
सद्यश्चोत्पद्यते तेषां मनसा सर्वमीप्सितम् ।।५५।।
इत्येवं तु प्रिये लक्ष्मि! सर्वे महर्षयः स्थिताः ।
तपोलोके जनलोके पितरः सर्वथा स्थिताः ।।५६।।
महर्लोके लोकपाला रुद्राः प्रजेश्वरास्तथा ।
मनवः पितरश्चैव यथाकार्यं समस्थिताः ।।।५७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने महर्जनतपोलोकेषु मानसीसृष्टिपितॄणां निर्देशनामा एकोनचत्वारिंशोऽध्यायः ।।।३९।।