लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०३७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३७
[[लेखकः :|]]
अध्यायः ०३८ →

श्रीनारायण उवाच-
पत्नीव्रतपतिव्रते श्रीहरिणा विवाहिते ।
नमस्कृत्य परं देवं ततो लोकेषु चेरतुः ।। १ ।।
ताभ्यां संकल्पमात्रेण कोटिशो ब्राह्मणाः कृताः ।
एते तु ब्राह्मणाः सर्वे संकल्पसिद्धयोऽभवन् ।। २ ।।
तेषां न मैथुनी सृष्टिर्नाऽन्यसाधनबन्धिनी ।
न च पुण्यस्य सापेक्षा न वा वेधःसहायिनी ।। ३ ।।
इयं तु ब्रह्मसृष्टिर्वै ब्राह्मणा ब्रह्मरूपिणः ।
नारायणसमाः सर्वे नारायणस्वरूपिणः ।। ४ ।।
ब्रह्मा स्वकीयसृष्ट्यर्थं यदा स्वं त्वकरोत्तपः ।
तदा तु समये सृष्टिरियं ब्राह्मणमात्रजा ।। ५ ।।
प्रजापतेस्तु दिवसे प्रथमे ब्राह्मणाश्च ते ।
सर्वे नारायणी सृष्टिर्न तु वैधसी साऽभवत् ।। ६ ।।
विप्राणां तत्र सर्वेषामायुष्यं ब्रह्मणा समम् ।
वेधसा च सहोत्पन्नाः सह यान्ति प्रलीनताम् ।।७।।
दिव्यास्ते ब्राह्मणाः सर्वे यान्ति ब्रह्मपुरे परे ।
अथ सत्यात्मके स्थाने दिव्ये वै परमेष्ठिनः ।। ८ ।।
तिष्ठन्तो ब्राह्मसृष्टौ तु विप्रास्त एव सर्वशः ।
ब्रह्मर्षयः संभवन्ति ब्राह्मदिवसवर्तिनः ।। ९ ।।
प्रथमं तु दिनारंभे सत्यलोकेऽप्यनन्तकाः ।
तपोलोकेऽपि त एव जनेऽपि ब्राह्मणाश्च ते ।। 1.37.१० ।।
महर्लोकेऽपि त एव ब्राह्मणा दिव्यमूर्तयः ।
स्वर्गे चैवाऽन्तरीक्षे च पृथ्व्यां पातालसप्तके ।। ११ ।।
सर्वत्र ब्राह्मणा दिव्याश्चैकरूपैकभावनाः ।
एकसंस्कृतभाषाज्ञाश्चैकवर्णैकवृत्तयः ।। १२।।
सर्वे षोडशवर्षाश्च नार्या द्वादशहायनाः ।
समावस्था विकारादिरहिताः कामवर्जिताः ।।१३।।
नाऽशुद्धिर्न मनोजन्यो विकारो मिथुनाऽर्थितः ।
ब्रह्मध्यातार एवैते ब्रह्मयज्ञपराः सदा ।। १४।।
चतुर्दशसु लोकेषु गमनाऽगमनक्षमाः ।
आकाशगामिनः सर्वे यथेष्टरूपधारिणः ।। १६।।
दृश्याऽदृश्यस्वरूपज्ञाः सूक्ष्मस्थूलादिसंभवाः ।
एकज्ञातय एवैते संकल्पकृतसाधनाः ।। १६।।
भोजनं चामृतं तेषां गवां दुग्धं फलानि च ।
गावः कामदुघाः सर्वाः प्रदत्ता हरिणा च याः ।। १७।।
ता एव सह वर्तन्ते चतुर्दशस्तरेषु यत् ।
न न्यूनं जायते तेषां नारायणस्वरूपिणाम् ।। १८।।
यद्यदपेक्ष्यते वस्तु तत्तद्भवति तत्र वै ।
शीलसन्तोषतृप्त्यादिशालिनां च तपस्विनाम् ।। १९।।
नाऽऽसन् वर्णाश्रमास्तत्र नासन् ग्रामादयस्तथा ।
नासन् बालादिजन्मानि नासन् मरणवृद्धताः ।।1.37.२०।।
नासन् देहपरिणामा नासन् गृहनिवासिनः ।
नासन् क्षेत्राणि कृष्यर्थं नासन् वाहनजातयः ।।२१।।।
नदीपर्वतकासारगुहोच्चभूमिवासिनः ।
जले केचित् स्थले केचित्केचिद्व्योमनिवासिनः ।।२२।।
वाय्वाधाराः स्तराधारा बाष्पाधाराश्च केचन ।
सिद्ध्याधारास्तथैश्वर्याधाराः सर्वे निवासिनः ।।।२३।।
ब्रह्मपूजापरा ब्रह्मध्यानादिनिरताश्च ते ।
ब्राह्मणाः सर्वलोकानामनन्ता युगलाः स्मृताः ।।२४।।
पतिव्रताकृताः सर्वाः कन्या ह्यर्बुदकोटयः ।
पत्नीव्रतकृताः सर्वे कुमाराश्चाऽब्जकोटयः ।।२५।
यावन्तः सत्यलोके ते तावन्तस्तापसे जने ।
महर्लोके च तावन्तः स्वर्गे भुवरि भूस्थले ।।२६।।
अतले वितले तद्वत्सुतले च तलातले ।
महातले च पाताले ब्राह्मण्यो ब्राह्मणा हि वै ।।२७।।।
व्यवस्थास्तु तदा नाऽऽसन् केषाञ्चित्कुत्रचित्प्रथाः ।
आसन् स्नानं तथा ध्यानं जपः श्रीहरिपूजनम् ।।।२८।।।
आतिथेयश्च सत्कारः स्वाध्यायः षट् च सत्क्रियाः ।
संकल्पेनोपतिष्ठन्ति किमर्थं कोशरक्षणम् ।।२९।।
सर्वे वैकुण्ठगन्तारः पुनरावर्तना मुहुः ।
परलोके प्रगन्तारः पुनरावाससंगताः ।।1.37.३०।।
भवन्त्येव यथा मुक्ता मुक्तान्यश्च यथा सदा ।
अव्याहतशरीरास्तेऽव्याहताऽर्थ्यपदार्थकाः ।। ३१ ।।
अप्रतिहतसंकल्पा अव्याहतश्रियश्च ते ।
वैकुण्ठे ब्रह्मणो लोके नासीद्भेदो मनागपि ।। ३२।।
चतुर्दशसु लोकेषु नासीद् वैषम्यमण्वपि ।
यथा पुंसु तथा स्त्रीषु नासीद् भेदोऽङ्गमन्तरा ।। ३२ ।।
दिव्यदृष्ट्या तु ते सर्वे परस्परप्रभालिनः ।
दिव्यरूपैर्विराजन्ते यथासंकल्पसंपदः ।। ३४।।
तेषां तु प्रेमभक्त्या या श्रीहरेः स्यात्प्रसन्नता ।
सैव धर्मः सदाचारः सैवाऽऽनन्दप्रसाधनम् ।। ३५।।
सर्वे तु वैष्णवा आसन्नारायणपरायणाः ।
नारायणप्रपन्नास्ते मुक्ताविव परिप्लुताः ।। ३६।।
वसन्ति च जराजन्ममृतिव्याधिविवर्जिताः ।
न चिन्ता न च वोपाधिर्न विघ्नो नास्त्यरिष्टकम् ।। ३७।।
न भाग्याऽऽलंबनं तत्राऽऽलम्बनं हरिरेव यत् ।
शास्तुरालम्बनं नैव शास्ता श्रीहरिरेव यत् ।। ३८ ।।
इत्येवं प्रथमः कालः समारंभस्य वर्तते ।
वेधसो हि महादिव्यः सत्कालः स हि वर्तते ।। ३९।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने प्रजापतेः प्रथमदिवसीयसर्वादिब्राह्मणमात्रसृष्टिनिरूपणनामा सप्तत्रिंशोऽध्यायः । । ३७ ।।