अथर्ववेदः/काण्डं १५/सूक्तम् ०४

विकिस्रोतः तः
← सूक्तं १५.३ अथर्ववेदः - काण्डं १५
सूक्तं १५.४
अथर्वा
सूक्तं १५.५ →
दे. अध्यात्मम्, व्रात्यः। १, १३, १६ दैवी जगती, ४, ७, १० प्राजापत्या गायत्री, - - - - -- -

तस्मै प्राच्या दिशः । [१]
वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ । [२]
वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद।।
तस्मै दक्षिणाया दिशः । [४]
ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ।
ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद।।
तस्मै प्रतीच्या दिशः । [७]
वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ । [८]
वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद।।
तस्मा उदीच्या दिशः । [१०]
शारदौ मासौ गोप्तारावकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ । [११]
शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद।।
तस्मै ध्रुवाया दिशः । [१३]
हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ । [१४]
हैमनावेनं मासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद।।
तस्मा ऊर्ध्वाया दिशः । [१६]
शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ । [१७]
शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद।।

[सम्पाद्यताम्]