अथर्ववेदः/काण्डं १५/सूक्तम् ०५

विकिस्रोतः तः
← सूक्तं १५.४ अथर्ववेदः - काण्डं १५
सूक्तं १५.५
अथर्वा
सूक्तं १५.६ →
दे. रुद्रः। १ त्रिपदा विषमा गायत्री, २ त्रिपदा भुरिगार्ची त्रिष्टुप्, - - - - -- -

तस्मै प्राच्या दिशो अन्तर्देशाद्भवमिष्वासमनुष्ठातारमकुर्वन् । [१]
भव एनमिष्वासः प्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।।
नास्य पशून् न समानान् हिनस्ति य एवं वेद।।
तस्मै दक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् । [४]
शर्व एनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।।
नास्य पशून् न समानान् हिनस्ति य एवं वेद।।
तस्मै प्रतीच्या दिशो अन्तर्देशात्पशुपतिमिष्वासमनुष्ठातारमकुर्वन् । [६]
पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।।
नास्य पशून् न समानान् हिनस्ति य एवं वेद।।
तस्मा उदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् । [८]
उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।।
नास्य पशून् न समानान् हिनस्ति य एवं वेद।।
तस्मै ध्रुवाया दिशो अन्तर्देशाद्रुद्रमिष्वासमनुष्ठातारमकुर्वन् । [१०]
रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।।
नास्य पशून् न समानान् हिनस्ति य एवं वेद।।
तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवमिष्वासमनुष्ठातारमकुर्वन् । [१२
महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।।
नास्य पशून् न समानान् हिनस्ति य एवं वेद।।
तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् । [१४]
ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः।।
नास्य पशून् न समानान् हिनस्ति य एवं वेद।।