३०३-सत्यायुःशेषे यदि नरं सर्पोऽपि दशति चेन्न तस्य प्राणा उत्क्रामन्ति .
३०४–इदमत्र नो हार्दम्१ । न प्रयत्नादिरन्तव्यम् , अनिर्वेदः श्रियो मूलमिति च स्मर्तव्यमिति ।
३०५–एतेनास्माकं पुस्तकानां पूज्यतासमयस्य ध्यानमायाति ।
३०६-शतक्रोशमितविप्रकृष्टेभ्यः प्रदेशेभ्यो वेदपारगं तं विपश्चित्तमुपासीदन् विद्यार्थिनः ।
३०७- स एकाकी कार्यमिदं सम्भालयितुं२ नाशकत् ।
३०८-भुव्याकृष्टिशक्तेरुपज्ञायाः श्रेयः श्रीन्यूटनस्येति नार्य्याः सहन्ते ।
३०९-दशवर्षावस्थायामेव श्रीशङ्करः शास्त्रौघमवेदीत् ।
३०३– अत्र यदीति च चेदिति च समानाभिधेये प्रयुक्ते । एकतरं तु शक्यं परिहर्तुम्। तेन यदिशब्द एव परिहार्यःचेच्छब्दस्तु रंक्ष्यो लाघवाय । सति यदौ तदेति वक्तव्यं भविष्यति ।
३०४– हार्दमित्यभिप्रायार्थेऽशक्तम् । हार्दमिति हृदिस्थं भवति । प्रेमा, वा ।तमो हार्दं निवारयन् इति सायणः । प्रेमा न प्रियता हार्दमित्यमरः । तेनायं नो हृद्गतोऽभिप्राय इति वक्तव्यम् ।
३०५– एतेन वयं पुस्तकानां पूज्यतासमयं स्मारिता भवाम इत्येवं वक्तव्यम् । एतेन पुस्तकपूज्यतासमयोऽस्मत्स्मृतिविषयतां नीयत इत्येवं वा वाच्यम् ।
३०६- शतं क्रोशान्विप्रकृष्टेभ्यः प्रदेशेभ्य इति. शतात्क्रोशेभ्य इति वा वाच्यम् । प्रदेशेभ्य इति चावाच्यम् । पूर्वत्र कालाष्वनोरत्यन्तसंयोगे इति द्वितीया ।
३०७- सम्भालयितुमिति चिन्त्यम् । भल आभण्डने चुरादिरनुदात्तेत् । आभण्डनं निरूपणम् । प्रकृते तु नायमर्थः संगच्छते । इमं कार्यभारं वोढुमिति वक्तव्यम् ।
३०८- आकृष्टिशक्तेरुपज्ञातेति उपज्ञाया इति वा प्रशस्यः श्रीन्यूटन इत्येवं वक्तव्यम् । अत्रोपज्ञाया_इति हेतौ पञ्चमी । श्रेयः शब्दो मोक्षेण समानार्थकः । तथा ह्याह-मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतमिति । यत् किञ्चित्
प्रशस्यतरं तदपि श्रेयः । उपज्ञाया श्रेय इति तु नार्थं कमप्यर्पयति ।
३०९- दशवर्ष एवेति वक्तव्यम् , वयसा दशहायन इति वा । दशवर्षावस्थेति दुर्घटः समासः ।
१. अभिप्राय. इत्यभिप्रैति । २. वोदुमिति विवक्षति ।
३ प्रशस्तिरित्यर्थं प्रयुक्तम् ।