७०-ये नाम जगति दुर्विधा दुर्गता दरिद्रिा निःस्वाश्च सन्ति तेषां देयत ।
७१-यो हि प्रतीक्ष्यान्प्रतीक्षते१ स सुखमनुत्तमं लभंते ।
७२-अन्धं तमः प्रविष्टः पुमान् पुरेशां प्रकाशाय याचेत।
७३-इमाः प्रान्तभाषा राष्ट्रभाषया नेष्यन्ते स्वपदात् प्रच्यावयितुम् ।
७४-ब्रह्मचर्यमुपस्थेन्द्रियनियाम२' एवं न भवति, सर्वेन्द्रियविजयः स उच्यते ।
७५-दम्पती परिणीतायां दशायां यदि संयमेन तिष्ठतस्तदा
ब्रह्मचारिणावेव भवत इति शास्त्रम् ।
७६-आतुर्यमायतिरसंयतेरिति वैद्याः ।
७७–स सर्वं जीवनं दरिद्रेभ्योऽन्नमदात्।
७८–व्रातीनानां३ दारिद्रयपरितापः प्राचीनः श्रूयमाणः
सनातनश्च दृश्यमानः ।
७०-निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गंतोऽपि स इत्यमराद्
दुर्विधादयः पर्यायवचना इति न युगपत्प्रयोगमर्हन्ति ।
७१-प्रतीक्ष्यः पूज्य इत्यनर्थान्तरम् । प्रतिपूर्वस्येक्षेस्तिङि तु न पूजनमर्थः क्वचिद्
दृश्यते । तेनाभिपूजयतीति वक्तव्यम् ।
७३-प्रकाशं याचेतेत्येवंन्यासो निर्दोषः स्यात् । ।
७३-प्रान्त: सीमान्तो भवति न तु प्रदेशो जनपदो वा विषयो वा । हिन्दीमनुसरंस्त्वेवं प्रयुङ्क्तेऽप्रगल्भः ।
७४-स इति विधेयप्राधान्यात्पुस्त्वेन निर्देशः । तेन नात्र कश्चिद्दोषः ।
७५-जाया च पतिश्चेति दम्पती भवतः । तयोरेकः परिणेता भवति, 'परा तु परिणीता । परिणीता दशेत्यपार्थकम् । विवाहपूर्वकमेव दाम्पत्यमित्यव्यभिचारात्परिणीतादि विशेषणमंनर्थकम् । कामं गृहस्थौ गृहिणौ वा सन्तावपीत्येवं विशेषणयोगो न वार्यते ।
७६-आयतिरुत्तरकालो भवति प्रभावोऽपि । तेन प्रकृते फलं विपाकः परिणतिरिति वा वाच्यम् ।
७७-जीवनं जीवितं प्राणो भवति । न तु जीवनकालः। आयुर्जीवनकाल इति कोषात्सर्वमायुरिति वक्तव्यम् ।
७८-प्राचीनः श्रूयते, सनातनश्च दृश्यत इति वक्तंव्यम् । लटः शतृशानचावप्रथमासमानाधिकरणे इत्यप्रथमान्तेन सामानाधिकरण्ये लटः शतृशानचावादेशौ विहितौ । तेनेह न प्रसज्येते । विस्तरस्त्वत्रार्थे पूर्वार्द्धे द्रष्टव्यः ।
१. पूजयतीत्यत्रार्थे प्रयुक्तम् । २. नियमः। ३. शरीरायासंजीविनाम्