सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१

निरन्तरकृताभ्यासात्पण्मासात् सिद्धिभाग्भवेत् ।
वलीपलितनिर्मुक्तो जीवेदब्दशतत्रयम् ॥ २८ ॥ ।
अथ हठ :-
पादमूलेन वामेन योनिं सम्पीड्य दक्षिणम् ।
प्रसारितं पदं कृत्वा कराभ्यां पूरयेन्मुखे ।। २९॥
कण्ठे बन्धं समारोप्याधाराद्वायुमूर्ध्वतः ।
यथा दण्डाहतस्सर्पो दण्डाकारः प्रजायते ।। ३० ॥
ऋजुभूता तदा शक्तिः कुण्डली सहसा भवेत् ।
तदासौ मरणावस्था जायते द्विपुटाश्रिता ॥ ३१ ॥
महारोगा महाक्लेशा जीर्य​न्ते मरणादयः ।
महामुद्रांच तेनैनां वदन्ति विबुधोत्तमाः ॥ ३२ ॥
महामुद्राकृता येन साधकाय प्रसिध्यति ।
कथ्यतेऽसौ महाबन्धो जरामरणनाशकः ॥ ३३ ॥
पूरयित्वा मुखे वायुं हृदय चु (चि) बुक कृते ।
निभृतं योनिमाकुञ्चेन्मनो मध्ये नियोजयेत् ॥ ३४ ॥
अयं च सर्वनाडीनामूर्ध्वं गतिविशोधनः।
त्रिवेणीसङ्गमं कृत्वा केदारं प्रापयेन्मनः ॥ ३५॥
रूपलावण्यसम्पन्ना यथा स्त्री पुरुषं विना ।
महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ ।। ३६ ॥
सव्यं प्रसारितं पादं कराभ्यां धारयेद् दृढम्।
आन्दोलनं ततः कुर्याच्छरीरस्य त्रिमार्गतः ॥ ३७ ॥
पुनरास्फालनं कट्यां सुस्थिरं कण्ठमुद्रया ।
वायुना गतिमाहृत्य कृत्वा पूरककुम्भकौ ॥ ३८ ॥