पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०

एक एवामरौघो हि राजयोगाभिधानकः ।
मयादिभिस्समायुक्तश्चतुर्थो दीयते कथम् ॥ १७ ॥
मृदुमध्याध मात्रश्च अधिमात्रतरस्तथा।
चतुर्धा साधको ज्ञेयस्तत्सोपानमिहोच्यते ।। १८ ॥
मन्दोत्साही मन्दरागी पराधीनो विदूषकः ।
व्याधिस्थो हीनसत्वश्च​ ग्र (गृ) हवासी मृदुः स्मृतः ॥ १९ ॥
समबुद्धिः समाभ्यासी समकायः समाश्रयः । ।
मध्यस्थः सर्वकार्येषु मध्यसत्वोऽभिधीयते ॥ २० ॥ ।
क्षमावीयेनयेर्युक्तो वयस्थस्सत्ववानपि ।
स्वाधीनश्च खरश्शूरस्सोऽधिमात्रो निगद्यते ॥ । २१ ॥
सर्वशास्त्रकृताभ्यासो मनोज्ञो वीर्यशौर्यवान् ।
निर्मोहस्सर्वसम्पन्नो निर्विकारो महाश्रयः ॥ २२ ॥
अधिमात्रतरस्सोऽपि महाकायः प्रवर्तते ।
तरन्ति च भवाम्भोधिं तारयन्ति परानपि ॥ २३॥
मृदवे दीयते मंत्रो मध्याय लय उच्यते ।
अधिमात्रे हठं दद्यादमरौघो महेश्वरे ॥ २४ ॥
तत्र मंत्रम् :-
अह (ओ) मिति एकाक्षरं मंत्रं तत्सप्रणवादिकम् ।
शिवं शम्भं हृदि ध्यात्वा द्वादशे भिन्नमण्डले ॥ २५ ॥
एकलक्षजपान्मृत्युं नाशयेदतिदारुणम्।
दशांशं हवनं कृत्वा क्षौद्रक्षीरघृताम्बुजैः ॥ २६ ॥
अथलय  :--
कामरूपे शिवं देवं लिङ्गाभं मणिसन्निभम् ।
स्रवन्तं चामृतरसं यो ध्यायेन्निजविग्रहे ॥ २७ ॥