सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७

व्यापकत्वे परं सारं यद्विष्णोराद्यमव्ययम् ।
विश्रान्तिदायकं देहे तज्ज्ञात्वा वैष्णवो भवेत् ।। ५४ ।।
भास्वत्स्वरूपो यो भेदाद् भेदाभेदभवोज्झितः ।
भाति देहे सदा यस्य स वै भागवतो भवेत् ।। ५५ ।।
यो वेत्ति वैष्णवं भेदं सर्वासर्वमयं निजम् ।
प्रबुद्धं सर्वदेहस्थं भेदवादी भवेत्तु सः ।। ५६ ।।
पञ्चानामक्षया हानिः (पञ्चानामक्षपातानां) पञ्चत्वं रात्रिरुच्यत ।
तां रात्रिं यो विजानाति स भवेत्पांचरात्रिकः ॥ ५७ ॥
येन जीवन्ति जीवा वै मुक्तिं यान्ति च तत्क्षणात् ।
स जीवो विदितो येन सदाजीवी स कथ्यते ।। ५८ ।।
यः करोति सदा प्रीतिं प्रसन्ने पुरुषे परे
शासितानीन्द्रियाण्येव सात्विकः सोऽभिधीयते ॥ ५९॥
सर्वाकारं निराकारं निर्निमित्तं निरञ्जनम् ।
सूक्ष्मं हंसश्च यो वेत्ति स भवेत्सूक्ष्मसात्त्विकः ।। ६० ।।
सत्यमेकमजं नित्यमनन्तञ्चाक्षयं ध्रुवम् ।
ज्ञात्वा यस्तु वदेद्धीरः सत्यवादी स कथ्यते ।। ६१ ॥
ज्ञानज्ञेयमयाभ्यां तु योगिनः स्वस्वभावतः ।
कलङ्की स तु विज्ञेयो व्यापकः पुरुषोत्तमः ।। ६२ ॥
मुक्तिचारे मतिर्या वै व्यापिका स्वप्रकाशिका ।
एषा ज्ञानवती यस्य ज्ञाताऽसौ सात्विको भवेत् ॥ ६३ ॥
क्षपणं चित्तवृत्तीनां रागद्वेषविलुण्ठनम् ।
कुरुते व्योमवन्नग्नो योऽसौ क्षपणको भवेत् ॥ ६४ ॥
प्रसरं भासते शक्तिः संकोचं भासते शिवः ।
तयोर्योगस्य कर्ता यः स भवेत् सिद्धयोगिराट् ॥ । ६५॥