३३
चित्प्रकाश- परानन्दौ यस्य वै कुण्डलद्वयम् ।
जपमालाक्षविश्रान्तिः सोऽवधूतोऽभिधीयते ।। ९ ।।
यस्य धैर्यमयो दण्डः पराकाशं च खर्परम् ।
योगपट्टं निजा शक्तिः सोऽवधूतोऽभिधीयते ॥ १० ॥
भेदाभेदौ स्वयं भिक्षां षट्रसास्वादने रतः
जारणा(त) तन्मयीभावः सोऽवधूतोऽभिधीयते ।। ११ ।।
अचिन्त्ये निज-दिग्देशे स्वान्तरं यस्तु गच्छति ।
एकदेशान्तरीयो यः सोऽवधूतोऽभिधीयते ।। १२ ।।
स्वपिण्डममरं कर्तुमनन्ताममरीं च यः ।
स्वयमेव पिवेदेतां सोऽवधूतोऽभिधीयते ।। १३ ।।
अचिन्त्यं वज्रवद्गाढा वासनामलसंकुला ।
सा वज्री भक्षिता येन सोऽवधूतोऽभिधीयते ।। १४ ।।
आवर्त्तयति यः सम्यक् स्वस्वमध्ये स्वयं सदा ।
समत्वेन जगद्वेत्ति सोऽवधूतोऽभिधीयते ।। १५॥
स्वात्मानमवगच्छेद्यः स्वात्मन्येवावतिष्ठते ।
अनुत्थानमयः सम्यक् सोऽवधूतोऽभिधीयते ।। १६ ॥
अनुत्वा(त्था)धारसम्पन्नः परविश्रान्तिपारगः ।
धृतिचिन्मयतत्त्वज्ञः सोऽवधूतोऽभिधीयते ।। १७ ।।
अव्यक्तं व्यक्तमाधत्ते व्यक्तं सर्वं ग्रसत्यलम् ।
स्व(स)त्यं स्वान्तरे सन् यः सोऽवधूतोऽभिधीयते ।। १८
अवभासात्मको भासः स्वप्रकाशे सुसंस्थितः ।
लीलया रमते लोके सोऽवधूतोऽभिधीयते ।।१९।।
क्वचिद्भोगी क्वचित्त्यागी क्वचिनग्रः पिशाचवत् ।
क्वचिद्राजा क्वचाचारी सोऽवधूतोऽभिधीयते ।। २० ॥
६-निर्वृति (यो.) कृत्वा स्वास्वादने (ह.). ७–अविद्या (तं.).