२५
चेत्रं कमंडलुञ्चैव भस्मना च त्रिपुण्ड्रकम् ।
कुर्यादेतान् प्रयत्नेन गुरुवन्दनपूर्वकम् ।
तेषां पिण्डसिद्धौ सत्यां सर्वसिद्धयः सन्निधाना भवन्ति।।१७॥
उत्तञ्च :-
यस्मिन् ज्ञाते जगत्सर्वं सिद्धं भवति लीलया ।
सिद्धयः स्वयमायान्ति तस्माद् ज्ञेयं परमं पदम् ॥ १८ ।।
परं पदं न वेषेण प्राप्यते परमार्थतः।
देहमूलं हि वेषं स्याल्लोकप्रत्ययहेतुकम् ।। १९ ॥ ।
लोके निकृष्टमुत्कृष्टं परिगृह्य पृथक् कृतम् ।
तत्स्वधर्म इति प्रोक्तो योगमार्गे विशेषतः ॥ २० ॥
योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ ॥ २१ ॥
शास्त्रेष्वन्येषु सर्वेषु शिवेन कथितः पुरा ।
योगः सन्नहनोपायो ज्ञानसंगतियुक्तिषु ।। २२ ।।
लोके निकृष्टं सततं यं वा यं वा प्रकुर्वतो ।
तं वा तं वा वर्जयन्ति लोकज्ञानबलेन तु ।। २३ ॥
मनुष्याणां च सर्वेषां प्राक्संस्कारवशादिह ।
शास्त्र-युक्ति-समाचारः क्रमेण भवति स्फुटम् ॥ २४ ॥
एवं पिण्डे संसिद्धे ज्ञानप्राप्त्यर्थं तच्च परमपदं महासिद्धानां
मतं परिज्ञाय तस्मिन्नहंभावे जीवात्मा च सहजसंयम-
सोपायाद्वैतक्रमेणोपलक्ष्यते ॥ २५॥
तत्र सहजमिति ।
विश्वातीतं परमेश्वरं विश्वरूपेणावभासमानमिति
एकमेवास्तीति स्वस्वभावेन यद् ज्ञानं तत्सहजं प्रसिद्धम् ॥ २६ ॥
१०-ध्यान (तं.).