पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४

तद्यथा—निरुत्थानप्राप्त्युपायः कथ्यते ।
महासिद्धयोगिनः स्वस्वरूपतयानुसन्धानेन निजावेशो भवति
निजावेशान्निपीडित -निरुत्थान-दशा-महोदयः कश्चिज्जायते ।
ततः सच्चिदानन्द- चमत्कारात् अद्भुताकारप्रकाशप्रबोधो जायते ।
प्रबोधादखिलमेतद् द्वयाद्वय-प्रकटतया चैतन्यभासाभासकं परात्परं
पदमेव प्रस्फुटं भवतीति सत्यं ।८॥
अत एव महासिद्धयोगिभिः सम्यक् (उक्त ) गुरूप्रसादं लब्ध्वाऽ-
वधान-बलेनैक्यं भजमानैस्तत्क्षणात् परमं पदमेवानुभूयते ॥९ ॥
तदनुभवबलेन स्वकीयं सिद्धं सम्यक् निजपिण्डं परिज्ञात्वा
तमेव परमपदे एकीकृत्य तस्मिन् प्रत्यावृत्यारूढेवाभ्यन्तरे स्वपिण्ड
सिद्धयर्थं महत्त्वमनुभूयते ॥ १० ॥
निजपिण्डमिति स्वरूपकिरणानन्दोन्मेषमात्रं यस्योन्मेषस्य प्रत्या-
हरणमेव समरसकरणं भवति ॥ ११॥ ।
अतएव स्वकीयं पिण्डं महारश्मिपुंजं स्वेनैवाकारेण प्रतीयमानं
स्वानुसन्धानेन स्वस्मिन्नुररीकृत्य महासिद्धयोगिनः पिण्डसिद्ध्य​र्थं
तिष्ठन्तीति प्रसिद्धम् ।। १२ ॥
अथ पिण्डसिद्धौ वेषः कथ्यते-
शंखमुद्राधारणञ्च केशरोमप्रधारणम् ।
अमरीपानममलं तथा मर्दनमुत्कटम् ॥ १३ ।।
एकान्तवासो दीक्षा च सन्ध्या जपमाश्र​या।
झानभैरवमूर्तेस्तु तत्पूजा च सुरादिभिः ॥ १४ ॥
शंखाध्मातं सिहंनादं कौपीनं पादुका तथा ।
अङ्गवस्त्रं बहिर्वस्त्रं कम्बलं छत्रमद्भुतम् ॥ १५ ॥


५-भूतकरणं (तं.). ६-पिण्डपरीक्षा च स्व (ह.). ७-उत्तमम् (ह.). ८-जपममायया (ह.). ९ यथाविधि; (ह.).