२६
संयम इति । सावधानानां प्रस्फुरद्-व्यापाराणां निजवृत्तीनां
संयमनं कृत्वा आत्मनि धीयते इति संयमः ॥ २७ ॥
सोपायमिति । स्वयमेव प्रकाशमयं स्वेनैव स्वात्मन्येकी-
कृत्य सदा तत्चेन स्थातव्यम् ॥ २८ ॥
अद्वैतमिति । अकर्तृतयैव योगी नित्यतृप्तो निर्विकल्पः सदा
निरुत्थानत्वेन तिष्ठति ॥ २९ ॥
उक्तञ्च
सहजं स्वात्मसंवित्तिः संयमः स्वात्मनिग्रहः ।
सोपायः स्वस्य विश्रान्तिरद्वैतं परमं पदम् ॥ ३०॥
तज्ज्ञेयं सद्गुर्वक्त्रात् नान्यथा शास्त्रकोटिभिः ।
न तर्कशब्दविज्ञानान्नाचाराद्वेदपाठनात् ॥ ३१ ॥
वेदान्तश्रवणान्नैव तत्त्वमस्यादिबोधनात् ।
न हंसोच्चारणाज्जीवब्रह्मणोरैक्यभावनात् ॥ ३२ ॥
न ध्यानान्न लयाल्लीनः सर्वज्ञः सिद्धिपारगः
स्वेच्छो योगी स्वयंकर्ता लीलया चाजरोऽमरः॥३३॥
अवध्यो देवदैत्यानां क्रीडते भैरवो यथा ।
इत्येवं निश्चलो योऽसौ क्रमादाप्नोति लीलया ॥ ३४॥
असाध्याः सिद्धयः सर्वाः सत्यमीश्वरभासितम् ।
प्रथमे त्वरोगतासिद्धिः सर्वलोकप्रियो भवेत् ।
कांक्षते दर्शनं तस्य स्वात्मारूढस्य नित्यशः ॥ ३५॥
कृतार्थः स्याद्वितीये तु कुरुते सर्वभाषया।
तृतीये दिव्यदेहस्तु व्यालैर्व्याघ्रैर्न बाध्यते ॥ ३६ ॥
११ - स्व स्व निग्रहः (ह.). १२-पारगात् (ह.). १३ - लयाल्लीनात् मौन कर्म समाश्रयात् लीने पिण्डे भवेदू योगी (तं.). १४ - सद्गुरोः करुणां विना (ह.) १५–कविता (तं.). १६-भाषणं