पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७

चतुर्थे क्षुत्तृषानिद्राशीततापविवर्जितः ।
जायते दिव्ययोगीशो दूरश्रावी न संशयः ।। ३७ ।।
वाक्सिद्धिः पञ्चमे वर्षे परकायप्रवेशनम् ।
षष्ठे न छिद्यते शस्त्रैर्वज्र​पातैर्न बाध्यते ।। ३८ ॥
वायुवेगी क्षितित्यागी दूरदर्शी च सप्त​मे ।
अणिमादिगुणोपेतस्त्वष्टमे वत्सरे भवेत् ॥ ३९ ॥
नवमे वज्र​कायः स्यात् खेचरो दिक्चरो भवेत् ।
दशमे पवनाद्वेगी यत्रेच्छा तत्र धावति ।। ४० ।।
सम्यगेकादशे वर्षे सर्वज्ञः सिद्धिभाग्भवेत् ।
द्वादशे शिवतुल्योऽसौ कर्ता हर्ता स्वयं भवेत् ॥ ४१ ॥
त्रैलोक्ये पूज्यते सिद्धः सत्यं श्रीभैरवो यथा ।
एवं द्वादशवर्षेषु सिद्धयोगी महाबलः ।
जायते सद्गुरोः पादप्रभावानात्र संशयः ॥ ४२ ॥
गुरुकुलसन्तानञ्चेति पञ्चधा प्रोक्तम्
आई-सन्तानं विलेश्वर-सन्तानं विभूति-सन्तानं नाथ-सन्तानं
योगीश्वर-सन्तानञ्चेति एषामपि सन्तानानां पृथक् पृथक् वैशिष्ट्यं
वर्तते ॥ ४३ ॥
परमार्थतः सव पाञ्चभौतिकं । तज्जाताः पुरुषाः । (स्ववोघ) सम्बोध-
मात्रैकरूपः सशिवः । तदितरत्सर्वमज्ञानमव्यक्तं भवति तत्र
शिवस्तु ज्ञानं ॥ ४४ ॥
एतेषामपि सन्तानानां केचित्स्वरूपपराङ्मुखाः वेश-
मात्रसम्पनाः क्रयविक्रयादिकं कुर्वन्ति सन्तानभेदं
प्रत्यन्योऽन्यमधः कुर्वन्ति योगमार्गं द्वेषयन्ति ॥४५॥


१७- यत्रेच्छा तत्र धावति (यो.). १८ - न जाताः (ह.).