परो ध्येयोऽथ देवेश स्समाप्तऽऽथर्वणी श्रुतिरित्यदिषु प्रसिद्धइत्यर्थः । अ थत्रा ‘यद्वयक्षरं नाम गिरेरितं नृणां सकृत्प्रसङ्गमा दघमाशुर्हति तत्। पवित्र कीतिं तमलक्यशासनं भवानहोद्वेष्टि शिवं शिवेतरइत्यादिषु सकलदुरित हरतेनानुशिष्टस्य शिवशब्दस्य वाच्योयः प्रसिद्ध इत्यर्थः । शिवोयाति सर्वत्रेति । सर्वेष्वपि लोकेषु शिव एव यजति धर्माधिकारित्वेनावतिष्ठते । कर्मवश्यसकलजीवात्मकः स एव नियन्तेत्यर्थः । शिवस्सर्वमिदंजगत् । भूतभैतिकसकलजडप्रपद्यात्मकः तनियामक इत्यर्थः । भोक्ता प्रपनानां पाचयिता । दाता प्रपन्नानां प्रामादिकेपातकाद्यन्तराये सतितस्य शोधयिता । एतानि विशेषणानि शिवे स्वात्मनिवेदनतदङ्गपयुक्तानि । तथाहि नियम्यस्य पूजकस्य नियामकस्य शिवस्यच नियतनियम्यानियामकभावरूप शरीरशरीरिभावेन शिवंप्रतिपूजकस्य तवाहमस्मीत्यनुसंधानमेत्रामनिवेदनम्। तदिह सोहमेवेत्यत्र तत्पदोक्तेशिवे अहंपदेन स्वशरीरकवं एवकारेण तद योगव्यवच्छेदकार्थ केन तस्यनियतत्वं चानुसंधानविषयरूपं तदुपपादक मभिहितम् । अस्य चात्मनिवेदनस्य साङ्गपञ्चकत्वमाहुः- ‘आनुकूल्य स्य सङ्कल्पः प्रातिकूल्यविवर्जनम् । रक्षिष्यतीति विश्वस गोप्तृववरणं तथा ॥ कार्पण्य'मिति । तत्र सर्वभूतानुकूल्याचरणतप्रातिकूल्यवर्जन- रूपाङ्गद्योपपादकं सर्वोऽपि जीववर्गः पूजकं प्रति शरण्यस्य शिवस्य शरीर मियेतदभिहितम् । तेन प्राणिमात्रे शिवपूजकेन राजशरीरे भृत्यइवानु कूपेन वर्तितव्यं तत्प्रातिकूल्यं च वर्जनीयमितिलभ्यते । अत एवोक्तं वा युसंहितायां शिवस्य मूर्यष्टकनिरूपणप्रकरणे - ‘आत्मा तस्याष्टमी मूर्तिशिवस्य परमात्मनः । व्यापिकेतरमूतनां विधं तस्मात् शिवाम- कम् । सर्वोपकारकरणं सर्वानुग्रहणं तथा । सर्वाभयप्रदानंच शिवस्या राधनं विदुः ॥ देहिनो यस्य कस्यापि क्रियते यदि निग्रहः । अष्टमूर्ते रैनिष्टं तकृतमेत्र नसंशयःइति ॥ रक्षिष्यतीति विश्वसेतु सर्वैरपि विशे
पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१०५
दिखावट