पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
प्रदक्षिणविधिः ।।

घणैः उपपादकमभिहितम् । अहमेवेत्युक्तं स्वशरीरकवंतावत् स्वरक्ष- णविश्वसोपपादकम् । कोहि स्वशरीरं न रक्षेत् । शिवशब्दोक्तमुक्त विश्वसविरोधिरागदोषा.हेडमलराहित्यं समाश्रयणीयत्वेपयोगि सकल कल्याणगुणशालित्वं सकलभूतहिताशंसितृत्वं सकलभूतहितकर्तृत्वं हित विरोधिसकळदुरितनिवर्तकाशवशब्दवाच्यत्व मित्येतत्सर्वमपि तदुपपादकं शि- बोयजतिसर्वत्र शिवस्सर्वमिदंजगत्' इति विशेषणद्वयोक्तं चेतनाचेतनात्मक- सकलप्रपञ्चनियन्तृत्वरूपं सर्वेश्वरत्वमपि तदुपपादकम्। सर्वेश्वरोहि तद्भक्ता- भिलषितदानसमर्थ इति विश्वसितुं शक्यः । पालनार्थात् भुजिधातोः दैप्शेधन'इति धातोश्च ताच्छील्यार्थकत्वेन भोक्ता दातेति विशेषणद्वयेना भिहितं भक्तरक्षकस्त्रभावकत्वं तदीयप्रामादिकमहापातकादिसकल दुरित निवर्तकस्त्रभावकत्वञ्च तदुपपादकमिति स्पष्टमेव । गोप्तृत्त्रचरणेऽपि भो- तृत्रमेवोपपादकम् । स्त्रयमेव रक्षकस्वभावः कथं रक्षकोभवेति प्रार्थितो नरक्षेत् । तुशब्देन देवतान्तरनिरपेक्षत्वरूपकार्पण्योपपादकं स्त्रस्य देवता- न्तराणांच नियम्यनियामकभावराहित्यरूपन्तुशब्देनोक्तमिति विवेकः॥ एवं लिभिश्चुळकोदकैर्जपकियात्मसमर्पणानन्तरं पञ्चब्रह्मषडङ्गमन्त्रा नपि मूलमन्त्रदशांशसंयोगेन जप्वा शिवमष्टपुष्पिकया पुष्पाञ्जलित्रयेण चाभ्यर्थं पुरतः कृताञ्जलिबन्धः स्थित्वा स्तोत्रमपि विज्ञापयेत् । पश्चवरण स्तोत्रे रन्यैरपि श्रुतिस्मृतिपुराणागमादिदृष्टैः पूर्वाचार्यकृतैस्तैर्वा यथासं भवं स्तुवीत । स्वकृतस्तोत्रं श्रुतितुल्यमिति पौराणिकाः ।

प्रदक्षिणविधिः।।


एवं स्तुत्वा पुष्पाञ्जलिसमर्पणपूर्वकं साष्टाङ्गं प्रणम्य प्रदक्षिणत्रयं कृत्वा पञ्चवारं प्रणम्य पुनः प्रदक्षिणं कुर्यात् । पूजासाफल्यसिद्ध्यर्थं प्रद