13]
शित्रयस्त्राहा । परमाशिवमात्मानं तुभ्यं निवेदयामीति प्रागुक्तरीत्या चुळ कोदकेन निवेदयेत् । अत्र मन्त्रश्लोके सोहमिति भागेन स्वस्य शिवस्य च शरीरशरीरिभावः प्रतिपाद्यते । शिवस्य नियामकत्वेन शरीरित्वात् स्वस्य नियम्यत्वेन शरीरत्वाच्च शरीरशरीरिभावे सोऽहमिति सामानाधि करण्यम् । धर्मज्ञस्सुन्दरो राजेतित्रत् । एवेति तदयोगव्यवच्छेदः । यश्शि चइति । यपरममंगळवाची शिखशब्दः रूढ्या त्रिविधेनाप्याणवमायिककर्म रूपेण मलेनास्पृष्टइति ‘अनादिमलसंलेषप्रागभावात् स्वभावतः । शिव इत्युच्यते सद्भिश्त्रितत्वार्थ वेदिभिरित्यादिषु प्रसिद्ध इयर्थः । अथवा शस्त्रम्'इतिधातो रौणादिकेन बन्प्रत्ययान्तवह्स्त्रत्रनिए'नेन शेते सा मरस्येन वर्ततेऽस्मिन् कल्याणगुणजातमिति ध्युत्पल्या परस्परविरुद्भौदार्यमा धुर्यविशेषज्ञत्वनिरतिशयत्वसहिष्णुत्वादिसमाश्रयणीयेवापयोगिसकलकल्या- णगुणरत्नाकरइति । ‘नास्तियद्यदकल्याणं तत्तदस्य कदाचन । कल्याणं सकलं चास्ति परमात्मा शिवोयतः’ इत्यादिषु प्रसिद्ध इयर्थः । अथवा ‘हिं- सिधातोस्सिहशब्दो वशकांतौ शिवःस्मृतः । वर्णव्यत्यपतस्सिद्धः कश्यपः पश्यकोयथेतिनिपातेन वष्टिशिवमिच्छतीति व्युत्पल्यासर्वभूतहिताशासितेति। समेधयति यान्नित्यं सर्वार्थानामुपक्रमे । शिवमिच्छन्मनुष्याणां तस्माद्देव- शिवस्मृतःइत्यादिषुप्रसिद्ध इत्यर्थः। अथवा शिघशब्दाच्छुभवाचिनः तस्क सतीतिणिचि पचाद्यच ‘गेरनिटी’ति णिलोपेच सति शिवं करोति सर्वे षामिति व्युत्पल्या सकलभूतहितकर्तेति । ‘समाभवंति मे सर्वे दानवाश्व- मराश्च ये । शिवोऽस्मि सर्वभूतानां शिवत्वं तेन में सुरा' इत्यादिषु प्र सिद्ध इत्यर्थः । अथवा ‘ भूयै गतावितिधातोर्णादिकेनवन्प्रत्ययस्याका- रयकारलोपस्य च निपाताभ्यामयते प्राप्यते इति व्युपया भोगमेक्षार्थिभिः भजनीयइति । ‘यह्नोरे मत्तमातङ्गा वायुवेगास्तुरङ्गमाः । चूर्णेन्दुवदना नार्य शिवपूजाविधेः फलम् ॥ सर्वमन्यत्परिंत्यज्य क्षेत्र एव शिवंकरः ।