292 बलसिद्धिव्याख्या पाप्मादिरूपेण तवेनाप्यध्यारोपितेनापि “वाचं बेनुमुपासीत ” इति वद स्यान्मनो ज्ञानमवकल्पते । तेन ज्ञानविधेरपहतपाप्मदेरात्मस्वरूपस्य सत्यत्व- सिद्धिरिति भावः । किंच न तावदह्यामप्रकाशलक्षणं ज्ञानमदृष्टार्थम्। न हि तेन किंचिददृष्टं जन्यते । तत्र यदि दृष्टार्थम् , तत्रोच्यते-ज्ञानमिति । तस्योपायो न ज्ञातः, तेनोषाणज्ञानात् दृष्टफलेऽपि ज्ञाने विधिमन्तरेण पुरुषो न प्रवर्तत इति ज्ञानं विधीयत इत्याशङ्कयति-तदिति । अत्रात्तर- माह--तस्येति । अथ दृष्टार्थमपि ज्ञानमवघातादिवत् विधास्यत इत्या शङ्कयति--अवघातेति । तत्रापि तण्डुलगतनियमादृष्टमस्ति ; अवघाता द्विलक्षणस्तुषादिविमोकः, ततो विलक्षणास्तण्डुलाः, ततो विलक्षणं पिष्टम् , ततो विलक्षणं पुरोडाश इत्येवं प्रणाच्या प्रधानापूर्वसिद्धेरेवदृष्टं तत्रास्तीति भावः । अथाद्वयात्मज्ञानमदृष्टपूर्वमलौकिकम् ; अतोऽदृष्टार्यमपि तद्विधीयत इति, तत्राह--अलैकिकमिरि । किमर्थं तद्विधीयते ? तावदास्मखरूपस्य न सिद्धये प्रतिपत्तये; यतो न प्रतिपत्तिमात्रफलो विधिः, अपितु कर्तव्यता अनुष्ठानं विधितो भवति । सा च दृष्टार्थे ज्ञाने दृष्टादेव फलात भोज नादिवत् प्रसिध्यति ; किं विधिना ? अतोऽौकके अपहतपाप्मादिरूपे आत्मतच्वेऽर्थे शब्देन प्रथमं परोक्षतया प्रतिपादिते तस्यापरोक्षज्ञाने तमप रोक्षीकर्तुं तस्यापरोक्षज्ञानस्य श्रेयभूतात्मोपायस्वात् पुमान् स्वयमेवोन्मुखः । तथाहि- कस्यचिद्दायादाश्चर्यभूतं गन्धर्वनगरादि श्रुत्वा तदपरोक्षीकरणे वयमेव पुमान् उन्मुखो भवतीति । अतः किं विधिनेति भावः । क्व नाम विधिर्युज्यत इत्याह--तदिति । उपसंहरति--नियोगेति । अतोऽप हतपाप्मादिवचसां ज्ञाननियोगानुप्रवेशो भूते सिद्धरूपेऽर्थे तेषां प्रमाणतां विहन्ति, अतत्परत्वात् । इतिहृते । भूतस्य सिद्धस्यापहतपाप्मादेरर्थस्य गतिमिच्छता नियोगानुप्रवेशो नोपास्यो न मनसि कार्य इत्यर्थः । तदेवं प्रागुक्तासु तिसृषु प्रतिपत्तिषु मध्ये प्रथमा शाब्दी प्रतिपति तृतीया चाद्वयात्मप्रकाशरूपा न विधीयत इत्युक्तम् । अधुना उपासनाख्या या द्वितीया प्रतिपत्तिः, तस्याः प्रतिपत्तेर्विधिर्निरस्पते--अत एवेति ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२५
दिखावट