नियोगकाण्डः भूतेऽर्थे प्रमाणाभावप्रसङ्गादित्यर्थः । ‘निष्ठता ’ । इत्यस्यानन्तरं सिद्धानां वेदान्तानामित्यध्याहार्यम् । अत एवेत्युपजीवितमर्थं दर्शयति-तत्रापीति । पूर्ववदिति; यथा तृतीयविधिपरस्वे अंतत्परत्वाद्वाक्यस्य नात्मखरूपावगति सिद्धिः, तथेत्यर्थः । यदि त्वपहतपाप्मादिवाक्यं वरूपनिष्ठभेव न नियोग ( निष्ठम् ; तेन तस्मात्प्रमितस्यात्मस्वरूपस्य निदिध्यासितव्यः " इत्यादे र्वचोऽन्तरादुपासनविधनमिष्यते, तत् स्यादेव ; न कश्चिद्दोषः । तयात्र “ विज्ञाय प्रज्ञां कुर्वीत ” इत्यत्र ‘विज्ञाय ’ इति क्त्वाप्रत्ययेनात्मतश्व ज्ञानस्य वेदान्तजस्य प्रज्ञाकरणात् पूर्वसिद्धतां दर्शयतीत्याह--खरूपेति । तदपि चोपासनविधानं वृथ, विधेरप्राप्तार्थत्वात्; अस्य च दृष्टयेतयैव भोजनादिवत् प्राप्तेरित्याह-प्राप्तेरिति । दृष्टार्थत्वमाह-अभ्यासेनेति । एतदुक्तं भवतेि-यदि खर्गादिवन्मुक्तिरदृष्टफलं स्यात् , ततसत्फळानु चिन्तनमदृष्टार्थत्वादप्राप्तं विधीयेत ; किंतु वरूपाविर्भावमात्रं मुक्तिरिति वर्णितम् । स्वरूपाविर्भावश्च शब्दात्परोक्षतयावगतस्याद्वयात्मनः साक्षाद्भवः । स चानुचिन्तनस्य ओोजनस्येव तृप्तिर्जुष्टं फलम् , ज्ञानाभ्यासेन प्रत्यय- प्रकर्षदर्शनात् । तथाहि--अभूतमपि यदनुभाव्यते तत्र साक्षादनुभवमा- पद्यत इत्युक्तम् ; किं पुनर्युतम् । तदेवं दृष्टार्यमनुचिन्तनम् । न च दृष्टार्थं दृष्टनिराकाड़क्षत्वाददृष्टं फलमाकाङ्क्षते । तस्मादृष्टार्यतया प्राप्तार्य- मनुचिन्तनमविधेयमित्युपसंहरति--तस्मादिति । वृत्तौ “ यदपि’ इत्यादिज्ञा पूर्वपक्षोपन्यासः । ‘तस्वमसि’ इति तच्वंपदार्थयोर्जलजीवयोरभेदं धारये- दित्याचार्येणोते शिष्यामिप्रायेण 'संदस्मि’ इत्युत्तमपुरुषनिर्देशः । धारवे दिति धारणमनुचिन्तनमुच्यते । तवमसि " इत्यत्राभृतेऽपि विषिः पूषा प्रपिष्टभागः " इत्यत्रेव कल्प्यत इति परो मन्यते । श्रवणादिति ) वेदान्तश्रवणोपलक्षितान् वेदान्तवाक्यार्थज्ञानादन्यदित्यर्थः । क्रतुं स कुर्वीत " इत्यादिश्रुतिषु क्रतुप्रज्ञशब्दाभ्यामनुचिन्तनमुक्तम् । ध्यायतिना तयोर्मदे तुल्यवन्निर्देशानुपपत्तिर्मा भूदिति अभेददर्शनार्थमनुचिन्तनं ध्यान मिति पर्यायनिर्देशः । प्रत्ययप्रवाह इति च ध्यानविवरणम् । कर्मवदिति ; यथाग्निहोत्रादि कर्म स्वर्गादिफलं तययः ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२६
दिखावट