पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

288 नमप्रपञ्चं प्रपञ्चरूपेण विस्तारयन्ती विक्षेपिकेत्युच्यते । तत्राद्या बीजमात्र रूपेण सुषुते तिष्ठति । द्वितीया च स्वमजागरितयोः प्रपश्वात्मना । तत्र यद्यपि विक्षेपिकाया निवृत्तिर्नात्मज्ञानविधेः फलम् , तथाप्याच्छादिकाया निवृत्तिः फलं भविष्यतीत्यतो न ज्ञानविधेर्निएफलस्वमित्यशङ्कयाह- लय इति । सांसारिकविविधदुःखनिवृत्तये प्रेक्षावतो ज्ञानविध्यर्थं प्रवृत्तिः । विक्षेपश्च प्रपञ्चमकः स्वमजागरितयोः शोकादिदुःरवहेतुः, न लय आच्छा दिका अविद्या । न ह्यसौ सुषुप्तगता दुःखहेतुः । दुःरवहेतुश्च निवर्यः । अतो न लयस्तथा निवत्यं यथा विक्षेपः । स ह्यदुःख दुःरवहतुन लयः । स तु दुःखात्मकत्वात् न केवलं न निवर्यःप्रत्युत प्रार्थनीयः । तथाच सुषुप्ते विविधदुःखनिवृत्तेर्लय् आमन्दवासनाकृत् श्रुतौ श्रुतः । आपिच अविद्यद्वैविध्यमपि प्रसिद्धमख्यातिमात्र भ्रमवादिनस्तव न स्यादिति दूषणान्तरमाह-- लयेति । लयः तवाग्रहणम् , विक्षेपो विपर्यय- दर्शनम् ; तयोर्भेदो न स्यादग्रहमात्रे भ्रमे । तस्मादग्रहणविपर्ययग्रहणलक्षणे हे आविषे अभ्युपेतव्ये । ते च पूर्वं कारणम्, उत्तरा कार्यमित्येवं ययस्थिते । तथाच रज्जुतत्वाग्रहणात् सर्वादिविपर्ययो दृश्यते । एवं सति च पूर्वा सुषुप्ते, परा च वमजागरितयोरित्येवमविद्यविमानोपपत्तिः । तथाच गौडपदैर्दर्शितम्-’ कार्यकारणबडौ” इति । कार्य विक्षेपा मिका प्रपञ्चबिद्या, कारणमग्रहणात्मिका अविद्या; ताभ्यां बडlवुभा। विश्वतैजसशब्दवाच्य जागरितस्थानस्वनस्थानावामानाविष्येते । प्राज्ञस्तु सुषुप्तस्थान आत्मा कारणेन तच्वग्रहणात्मिकाया अविद्यया बद्धः । उभे तु ते अविवे तुर्यं पूर्वोकनस्थानत्रयापेक्षया तु” “चतुरश्छयतावाद्यक्षर- लोपश्च” इति स्मरणात् चतुर्थे मुक्तिस्थाने न सिध्यत इत्यर्थः । ननु अन्यथैवायमग्रहणासम्यग्रग्रहणभेदेनाविधावो भविष्यति, किं विपर्ययेण ! तंत्राग्रहणं सुषुप्ते, जागरितवमयोस्वसम्यग्ग्रहणमितिं व्यवस्था सिडिभ नन्वसम्यग्ग्रहणाग्रहणयोः किं भेदोऽति ; बाढम; तथाहि--अभिन्न- स्यैकस्य प्रपञ्चभेदैः रहितस्यामवस्तुनोऽप्रदेशस्य विभोर्रहणमसम्यग्ग्रहणम् , तथाभूतस्याभिन्नस्याप्रदेशस्य वा अग्रहणमग्रहणम् । तदेवं ग्रहणाग्रहण रूपत्वात्तयोः पृथक्त्वेन प्रतीतिः । अतोऽत्यनयोर्भेदः । नैतत्सारम् : यतो