पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगकाण्डः 28 ज्ञेयार्थत्वेन ज्ञानं कर्तव्यतया चेदितम् ; न च तत्राकिंचित्करस्य तादथ्येन कर्तव्यतासिद्धिर्युज्यते । तस्मात् ज्ञानेन ज्ञेये कश्चिदर्यः कर्तव्यः । स च ज्ञेयभूतात्मस्वरूपप्रकाशनात् कोऽन्यः ? अपितु तदेव । न हि तस्य इष्टस्य संभवे सत्यदृष्टकल्पनोचिता । तस्माद्यथा प्रोक्षणादिविधे व्रश्वथेप्रेक्षणविषयादपि त्रीहार्वाकचित्करस्य प्रोक्षणस्य तादर्थानुपपन्या त्रीहिष्वदृष्टा संस्कृतिर्गम्यते, तथा ज्ञानविधेरात्मार्थज्ञानविषयादप्यात्मनो- ऽपहतपाप्मादि रूपं गम्यत इत्यर्थः । यथा स्वर्गकाम । इत्यादेर्वत्ति- ग्रन्थस्यायमर्थः-यः रवळ यत्कामःस तदुपायं कर्तव्यता प्रत्यति, अनु तिष्ठति च ; ननुपायमित्यनुभवसिद्धम् । अनुपाय हि तत्कामेन नानुष्ठितः स्यात्, अन्यकामस्यान्यत्रानुष्ठानादर्शनात् । अतश्च स्वर्गानुयाये बागे नियोगानुष्ठाने स्वर्गकामस्य न भवतः । तस्मात्स्वर्गयागयोः साध्यसाधन- भावो यथा यागविषयादपि विधेरवगभ्यते, तथा अपहतपाप्मादिरूपमा त्मानमुद्दिश्य ज्ञाननियोगो न युज्यते यदि तथाविध आत्मा ज्ञानेन न प्रतीयत इति ज्ञानविषयादपि विधेरात्मखरूपं बध्यते । तदेतसिडन्ती दूषयति--उक्तेति । सत्यमेवमामा ज्ञानेन प्रतीयत इति सिध्यति, न तु स्वरूपेणेति ; यस्मात्पररूपेणापि ज्ञानमर्यस्य मासक- मनन्तरमेवान्यथाख्यातिप्रतिष्ठापनेन प्रदर्शितम् । तत्र किं स्वरूपणमा ज्ञानेन प्रतीयते, पररूपेण वेति शब्दान्न निश्चयः स्यात् । न चात्र प्रमाणान्तरमस्ति, यतो निश्चयः स्यात् . । अवश्यं चैवमभ्यु पेयम्---यदात्मनोऽन्यथाप्रतीतिरस्तीति ; अन्यथा ज्ञानदिघेर्ने किंचित्फलं स्यात् । स हि निष्प्रपञ्चोऽप्यात्मा शब्दात्मकप्रपधरूपेण प्रकाशत इति तदवबोधनेन तस्वप्रतिपयर्थः । दृष्टा वस्वरूपभूतरजतावबोधनेन शुक्तित्व प्रतीतिः । अतश्च निष्प्रपञ्चस्यात्मनः प्रपञ्चात्मना प्रतीतिरस्तीति नावश्य ममनोऽपहतपाप्मादिरूपेण ज्ञेयतया तदूपसिद्धिः; अध्यारोपेणापि “वाच धेनुमुपासीत " इतिवत् तदुपपत्तेरित्युक्तं भवति । अथ मतम्-द्विविधेयमविद्या ; एका तवाज्ञानत्मिका बीजंभूता तवमाच्छादयुन्याच्छादिकेत्युच्यते ; यथा रज्जुतवाज्ञानात्मिका रज्जुतव मप्रकाशयन्ती । अन्या च तकार्यभूता रज्जुमेव सर्पदण्डादिरूपेण आत्मा- 20A