282 मासाद्व्याख्या यदयं परं ज्ञानमपेक्षते, तदप्यनाश्वसोऽपेतं तथात्यपरिच्छेदकमेव । अस्ति च तादृशं ज्ञानम् । अतस्तस्थ कोऽपराधः? येनन्यमुभयनेते । ननु परस्यान्यथाख्यातिमनिच्छतोऽनाश्वासो नास्येव ; अतः कथं तं प्रतीद- मुक्तम् ? तस्याप्येकत्र विवेकाग्रहात् सर्वत्र वैिवैकाग्रहशङथा अनाश्वस स्तुल्य इति भावः । अथैकत्र ब्यमिचारयोगात् सर्वत्रार्थपरिच्छेदे प्रत्यसमर्थं ज्ञानमप्रमाणं P.144-18 स्यात् , तथा सति चनाश्वसमपि न निरुध्यादियुच्यते, तत्राह- व्यभि- चारादिति । व्यभिचारादर्थपरिच्छेदे प्रमाणस्य नासामर्धम् , अर्थपरि च्छेदस्य तकार्यस्य लाभतः प्रमाणस्य परिच्छेदफलत्वादेव सेिद्धत्वात् । अतश्च परिच्छदञ्चदस्ति, ततः सत्यपि व्यभिचरे प्रामाण्यं सिद्धम् ; यतः परिच्छेदापरिच्छेदाभ्यां प्रामाण्याप्रमाण्ये ; न तु व्यभिचाराव्याभिचाराभ्याम्। प्रामाण्याप्रामाण्यं प्रति तयोरतन्त्रवत्. तथ।हिं- धूमादेरव्याभिचारस्यापि संबन्धस्मरणादिवैकल्यात्कदाचिरपरिच्छेदमकुर्वतोऽसति परिच्छेदे न प्राम प्यम् ; चक्षुषश्च कुष्णादि विषये व्यभिचारवतेऽपि सति परिच्छेदे प्रामाण्यं दृश्यते । किंच बाधकारणदोषावेव सर्वत्र प्रामाण्योपघातिनौ दृष्टी, ने व्यभिचारःसत्यपि व्यभिचरे चक्षुषः प्रमाणत्वत् ; उक्तं च ‘यत्र च दुष्टं करणम् ’ इत्यादि । ननु--व्यभिचरादप्यप्रामाण्यं दृष्टम् ; यथा शब्दस्य नित्यानित्यत्वयोः सा€थयोः साधारणानैकान्तिकस्य प्रमेयत्वादेः । मैवम् , न तत्र व्यभिचारादप्रामाण्यम् ; अपि तु परिच्छेदाख्यं कार्यमेव तत्र न लभ्यते, लिङ्गाभावात् । यस्मादव्यभिचारि लिङ्ग भवति ; प्रमेय त्वादि च न तथा । यत्र तु चक्षुरादावव्यभिचरः परिच्छेदे न कारणम् , तत्र सति परिच्छेदे प्रामाण्यं व्यभिचारेऽप्यविवादम् । ज्ञानं चक्षुरादि वत्र व्यभिचार्यपि परिच्छेदे निमित्तम् , न तु लिङ्गवदव्यभिचारि । अथोच्यते-व्यभिचारः 'अर्थस्तथा. अन्यथा वा’ इति संशयमुत्पादयन् प्रामाण्यमुपहन्वि; यथा ऊध्र्वेत्वस्य स्थाणुपुरुषद्वयगतस्वेन दैविध्यं संशय हेतुः, तया ज्ञानस्यापि तथात्वान्यथात्वेभयकोटिसंस्पर्शितया हैविध्यं संशय हेतुः स्यादिति । तन्न; यतो ज्ञानमुत्पस्यैवार्थं “ तथैव' इति परिच्छिनत्ति; तत्रासतो हैविध्यपस्य कुतः संशयहेतुत्वम् । न हि स्थाणौ परिच्छिन्ने
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१५
दिखावट