234 ब्रह्मसिडिब्याख्या प्रवृत्तिहेतुरनुमीयते, तस्य लिङदिशब्दगम्यत्वाच्छब्दैकगम्यत्वं प्रवृत्तिहेतो- रुच्यते ; तदसत्; प्रवृत्तिहेतुप्रत्ययस्य शब्दसाधनत्वेऽपि प्रथैत्तिहेतुरनुमेयः, न स तस्य शब्दो भवति । अन्यथा आप्तवचने यदाप्तज्ञानं तद्यदाक्ष- साधनं भवति, तदा तदनुमेयोऽर्थः श्रोतुः प्रत्यक्षप्रमाणकः स्यात् । न चैवम् । अतो न प्रवृत्तिहेतोः शब्दैकगम्यस्वम् । तस्मात् ' तस्यैव- मनुमेयत्वे’ इत्यादि शोभनमुक्तम् । अथ प्रमाणरूपेण स विध्यर्थः स्वशब्देन लिङदिना प्रकाशितः प्रमाणस्य प्रमेयमन्तरेणासंभवात् अपूर्वस्य पदार्थसंसर्गस्याक्षेप्त संबन्ध ज्ञाननिरपेक्षस्वात् प्रमाणान्तरं प्रति निरपेक्षश्च कथ्यते । यदि ह्यसौ गोशब्दवत् संबन्धज्ञानापेक्षः स्यात् , ततः संबन्धज्ञानस्य संबन्धिज्ञानाः धनत्वात् संबन्धिज्ञानाय च प्रमाणान्तरमपेक्षते ; तत्र च यथासिद्धमनूद्य मानो नापूवेसेसगंमाक्षिपंत; न त्वेतदस्ति; किंतु निरपेक्षश्च कथ्यतेऽन्य- प्रमां प्रति इत्याशङ्कयति-अथेति । तदूषयति-तथापीति । यद्यपि प्रमणमा विध्यर्थः, तथापि प्रमाणान्त रेणासिद्धे तस्मिन्नपूर्वोक्तावव्युत्पन्नप्रवृत्तिपदधर्मव्यतिक्रमाख्यौ दोषौ स्याताम्; प्रमाणान्तरसिङ च तांस्मन्ननुवदता अनूद्यमानता । तच्च यथावगतोऽनूद्यमन नापूर्वस्य संसर्गस्याक्षेप्ता स्यात् । किंच यत्र प्रमेयस्य विंध्यर्थस्य प्रामाण्यं तत्र श्रुतेः श्रूयमाणस्य ’शब्दस्यैव । ततश्च वृथा त्वयं विंध्यर्थ इत्यर्थः ननु शब्दे प्रमाणे तस्यानुवादकत्वादपूर्वार्थावगमो न स्यात्; तेन तद्वाच्यो विध्यर्थः प्रमाणमिष्यते ; नैवम् ; शब्दश्चेदनुवादकः , तद्वच्छ विध्यर्थाख्यं प्रमाणमपि यथावगममनूद्यमानं कथमपूर्वमर्थं संसर्गाख्यमव बोषयेत? न च–प्रमाणमनूद्यते, न तत्प्रमेयम् ; तेन तदपूर्वमर्थं बोध यिष्यतीति वाच्यम् । यतः प्रमाणं चेदनूद्यते नूनं तस्प्रमेयमप्यनुवदितव्यम् । न प्रमेयसंस्पर्शहिता विशिष्टप्रमणावगतिरस्ति । अतः प्रमाणमनूद्यमान यथावगतप्रमेयमेव प्रतीयत इति नपूर्वप्रमेयाक्षेपसिद्धिरित्यर्थः । किंच एष विध्यर्थः कार्यं प्रमाणम् ? न तावद्यगादौ चशब्दके खीयो यजत्यादिशब्दों यस्यास्ति स खशब्दकः । एतदुक्तं भवति- यनत्यादिशब्देनैव यागादिरुक्तः; किं तव विध्यर्थेनेति । न च पदार्थ
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६९
दिखावट