92 नयागकाण्डः पारिशेष्यानुमानमप्यलैकिके विशेषे नास्ति ; अन्यासंभवं हि तत्संभवति ; न चात्र विशेषान्तरस्यासंभव, श्रेयःसाधनवस्य लौकिकस्य विशेषान्तरस्य संभवात् । अथ लोकवेदव्यवहारौ द्वावप्यनादी पृथक्पन्थानौ; तत्र वैदिकीषु प्रवृत्तिषु लौकिकप्रवृत्तिहेतोरसंभवादलौकिके प्रवृत्तिहेतौ वैदिकादेव व्यव- हारात् संबन्धज्ञानम् । अतो न लोकवगभ्यो वेदे लिङाद्यर्यःकिंतु अन्यथैव । ‘ लौकिक --’ इति न्यायविरोधश्चइवनीयादिशब्दवत् परि हर्तव्यः । अतो न लौकिकासेभवे मिथ्यात्वम् । न च वैदिकीष्वपि प्रवृत्तिषु प्रवृत्तिहेतोः प्रवृच्यनुमेयत्वमविशिष्टमित्यनुवदत्वन्न विमुच्यस इति वाच्यम्; यतो न तत्र प्रवृच्या प्रवृत्तिहेतुरनुमीयते, अपितु प्रयोज्यवृद्धस्य तत्प्रत्ययः प्रवृत्तिहेतोश्च सिद्धिस्तत्प्रत्ययसामथ्र्येन । स च प्रयोज्यस्य प्रवृत्तिहेतुप्रत्ययः शब्दार्थ इति प्रवृत्तिहेतोर्मियोगस्य शब्दैकगम्यत्वम् । यच्चोक्तम्- लौकिकस्य श्रेयःसाधनत्वस्य संभवात्, नाकृतिको विध्यर्थः कल्प्यत इति, तदयुक्तम्; यतो लौकिकी श्रेयःसाधनता प्रमाणान्तरगम्या, प्रमाणान्तरगम्ये लिादेः प्रयोगदर्शनात् । लौकिकप्रयोगानुसारेण च वेदे शब्दाथोंऽनुसर्तव्यः । तत्र श्रेयःसाधनता चेद्वेदे लिङर्थः स्यात् ततः प्रमाणान्तरमपि शब्दर्थः स्यात् , तथैव व्युत्पत्तेः; न चैवम् ; अपौरुषे- यत्वाद्वेदे प्रमाणान्तराभावात् । तेनालौकिक एव प्रमाणान्तरागोचरो वेदे लिङर्थः, नानुवादभाक् । अतोऽपूर्व संसर्गमाक्षेप्तुमलमिति चेन्मतम्, तंत्रोऽच्यते—भवतु वेदव्यवहारात् वेदे शब्दार्थयोरनुगमोऽन्वयः संबन्ध ज्ञानमिति यावत्, तथापि न विध्यर्यस्य प्रमाणान्तरगोचरत व्यावर्तते ; तथाहि- अलैौकिके विध्यर्थं यदा लिङदिशब्दस्य वाचकसमये गम्यते, तदा स विपर्थः प्रमितः, न वा अप्रमितः ? तत्र भ्रामितश्चेत्, ततो न तत एव लिङादेः शब्दात् तस्य तदैव ज्ञायमानसंत्रसुखेन पूर्वमज्ञातसंबन्धस्या बोधकत्वात् । अतोऽवश्यं प्रमाणान्तरेण प्रमितिरिति वाच्यम् । अत आपन्नं प्रमाणान्तरगोचरत्वम् । अथ न प्रमितः, तते यदापि शब्दः प्रमितः, तदा विध्यर्थं न प्रमितः ; ततश्च द्वयोः संबन्धिनोरञ्जनात् तदाश्रयः संबन्धो ज्ञातुमशक्यः । एतच्चाभ्युपगम्योक्तम् । तच्वतस्तु न लिङ्गादयः केवलां वैदिकः; तेन तेषां पः :वुिशब्दवीकिकादेव व्युत्पत्तियुक्ता ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६२
दिखावट