पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

226 ब्रह्मसिद्धिव्याख्या प्रयोज्येऽपि संबन्धप्रहणसमये प्रयोज्यान्तरप्रवृच्यनुमितमेव विध्यर्थं संप्रति शब्दात प्रबुध्यते ; प्रयोज्यान्तरमप्यभ्यस्मात् प्रयोज्यवृद्धादिति बीजाङ्करवत् । शब्दानुमानयोर्मध्ये प्रथममित्येकस्येदंप्रथमता न लभ्यते । । तेनादौ शब्द- पूर्वकत्वात् शब्दैकगोचर इति न वाच्यम्_ । किंतु सर्वस्यैव प्रयोज्यस्य बोद्धरनुमानं शब्दात् पुरः स्थितं पूर्वभावि ; यतः सोऽपि संबन्धज्ञानसमये प्रमितमेव विध्यर्थ शब्दात् बुध्यते । पदथान्तरस्येव स शब्दः श्रुतस्य विध्यर्थस्य विधायकः शब्दोऽनुवादकः । अतः सोऽपि पदार्थान्तरवदेव नापूर्वसंसर्गमाक्षेप्तुमलम्, न च शब्दैकगोचर इति भावः । अनुमान|तु बुध्यमानो बालः शब्दाट्ठञ्च विध्यर्थं न बुध्यते, तेनानुमेय एव । ननु शब्दाद्रुद्धमेव बालेऽनुमिनोति ; बाढम् ; किंतु प्रयोज्येन । न च प्रति पुत्रान्तरे प्रयोज्ये यः शाब्दबोधः, सोऽन्यस्य बालस्यानुमानिकं ज्ञानमनु बादीकरोति । तेनानुमेयत्वमेव विध्यर्थस्य युक्तम् , न शब्दैकगोचरत्व- मित्याशङ्कयति । किंच प्रयोज्यप्रचुल्या प्रवृत्तिहेतुसामान्यमात्रे व्युत्पत्तिर्भूत अतस्तदेव शब्दार्थः स्यात। अथ सामान्येन व्यवहाराभावात् तस्मिन्विशेषः संरुप्यते, तथापि लौकिकादेव श्रेयःसाधनत्वात् सिडेनीलैौकिको नियोगः कल्पयितुं शक्यत: इत्यर्थः वैदिक्षु प्रवृत्तिषु लौकिकस्य प्रमाणान्तर गोचरस्य प्रवृत्तिहेतोरसंभवात् अकिकः प्रवृत्तिहेतुः कल्प्यत इति चेत् नैतत्; यतः 'य एव लैकिकाःइति न्यायेन लोकावगतसामथ्र्यः शब्दो वेदे बोधकः । तत्र लौकिकीषु प्रवृत्तिषु लौकिक एव प्रवृत्तिहेतु विदितसंगतिनीलैकिक इति स एव वेदे प्रतिपत्तयः । असंभवे व वेदे प्रवृत्तिहेतोर्जानस्य मिथ्यात्वमेव युक्तम् , न तु तस्मादलौकिककल्पना वा। अव्यभिचारी शब्दार्थः; प्रवृत्तिहेतुर्विशेषश्र बहुविधवेन व्यभिचारादशब्दार्थः तेन प्रवृत्तिहेतुः सामान्यमेव लोके वेदे च शब्दथः । यत्तु वेदे विशे. षान्तरमलौकिकं प्रतीयते, तङौकिकानां प्रमाणान्तरगोचराणामप्रमाणपूर्वे वेदैश्संभवात्; न तु शब्दादेव । तेन न वेदे लौकिकशब्दर्थत्यागदोष इति चेत् , एवमपि शब्दत्वसामन्यं वेदे शब्दार्थः; तयोर्क संबन्धज्ञान समये प्रमितमिति पदार्थान्तरवत् तस्यानुवादता न व्यावर्तते । अथा लकेकविशेषाभिप्रायेण प्रमाणान्तरगोचरतोच्यते, तदपि न; यतः सोऽ पीतरासंभवेन परिशेष्यानुमानासिद्धः । एतच्चाभ्युपगम्योक्तम् । तथ्वतस्तु KA