पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

228 बझसिद्धव्याख्या योऽपि मन्यते--शक्तिः शब्दस्य संबन्धः । सा च नार्थं प्रव्रत्ति हेत, तस्य तस्मत्ययद्वारेण प्रतीयमानत्वेन व्यवहितत्वात् । किंतु तत्प्रत्यये स हि शब्दस्य साक्षात्कार्यः । स एव च प्रयज्यवृद्धस्य प्रवृत्यानुमितो न प्रवृत्तिहेतुः । तेनैव च लिङदेः शब्दस्य संबन्धज्ञानम् _ । तेन न प्रवृत्तिहोतोः प्रमाणान्तरगोचरता। न च संबन्धज्ञाननुपपत्तिः, प्रवृत्तिहेताव प्रमितेऽपि तत्प्रत्ययेन प्रमितेन तदुपपत्तेरिति । स इदं प्रष्टव्यः- किं प्रत्ययमात्रे शब्दस्य सामर्थे गृह्यते ? अथालौकिकप्रवृत्तिहेतुप्रत्यये? यद्याद्यः पक्षः, तदा ततः प्रयोज्यस्य । प्रत्ययात्तत्प्रवृच्यानुमितात् बालेन याकिचि प्रतीयेत, नालैकिकः प्रवृत्तिहेतुः । अथ प्रयोज्यस्य प्रवृत्तिहेतुप्रत्ययः तस्मवृष्या लैौकिकासमवेन च पारिशेष्यादलैषिार्थविषयमनुमाय तत्र बालः शब्दस्य सामर्थे प्रत्येति, ततो विशिष्टप्रयोज्यप्रत्ययानुमितौ तद्वि शेषणस्य प्रवृत्तिहेतोरपि प्रवृत्ति पारिशेष्याभ्यामनुमितत्वादापनं तस्य प्रमा. णान्तरगोचरत्वम्; तथाहि -स्मृतं वा विशेषणं विशिष्टप्रमितावद्धं भवति, यथा-‘अनिमान् धूमात्’ इत्यादिसंबन्धज्ञानसमये स्मर्यमाणेऽमित- द्विशिष्टपर्वतप्रमितौ; प्रमितं वा, यथा- शुद्धो गौः' इति शैौक्यं तद्विशिष्टगोप्रमितैौ । तदिह यदि प्रवृत्तिहेतुस्तत्प्रत्ययस्य स्मृतौ यदि वा प्रमितौ विशेषणम्, उभयथापि प्रमाणान्तरविषयो न शब्दैकगम्यः शब्दस्य तदानीमगृहीतसंबन्धत्वात् । तत्र यदि स्मृत्याकृष्टः प्रवृत्तिहेतुः स्तरप्रत्ययस्य विशेषणम्, ततः स्मृतेः प्रमितिजन्यत्वादवश्यं प्रमाणान्तरं स्मृतिसिद्धयेऽन्वेष्टध्यम् । अतः प्रमितत्वान्न शब्दैकगम्यत्रम् । अव प्रमित विशेषणम्, तदापि विशिष्टानुमितौ विशेषणस्याप्यनुमितवत् प्रवृत्तिहेतोः प्रमाणान्तरगोचरत्वम् । अथ मतम्--सत्यं प्रतीतालैकिफप्रवृत्तिहेतुविशिष्ट एव प्रयोज्यप्रत्यय- स्तरमवृथा पारिशेष्यादनुमानेनानुमीयते, तथाषेि प्रयोज्यस्य प्रत्यय एवानु- मानस्य प्रामाण्यं न तद्विशेषणे प्रवृत्तिहेत; तस्य तु तत्र प्रतीतिमात्रम् । न तु प्रमितिः प्रभितिस्तु तस्य प्रवृच्यानुमितात् प्रयोज्यप्रत्ययादेव ; स न शाब्द इति नानुमेयत्वम् ; त चाप्रमितस्य विशेषणत्वं किमेवमन्यत्र हष्टम् इष्टमिति धूमः, ययां--आप्तवचनं विशिष्टं वक्तृप्रत्यये प्रमाणम् न प्रत्यर्पमात्रे विशिष्टता च प्रत्ययस्यार्यानुबन्धेन, न सतः । स चार्यः